SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ HMMM. सनमः सर्ग: तां धृत्वा याहुनोद्यानपालको जानवेपथुः । सद्यो विस्मृनपुष्पापहारकोपो जजल्प च ॥ ८७ ॥ रमयस्व विरंगु मामागनं बावर्णिवि ! । अन्यथा मां न मोक्ष्यामि पुष्पक्रीता मया यसि ॥ ८८ ॥ तमूचे पुष्पलावी मा मा मा मां स्पृश पाणिना | कुमार्यस्मि न पुंस्पर्शमद्यापहामि मालिक ! ॥ ८९ ।। आरामिकोऽपि तामूचे त्वया तयूंढमात्रया । प्रथमं मम संभोगपात्रीकार्यमिदं वपुः ॥१०॥ नथेति तां प्रपेदानां बालामुद्यानपालकः । मुमोचाक्षतकौमारा साऽपि स्वसदनं ययौ ।। ११ ॥ अन्येयुः परिणीता च सा वरेण वरीयमा । उवाच च पति रात्री वासागारमुपयुषी ॥१२॥ आर्यपत्र ! मया मालाकारस्यास्ति प्रतिश्रतः । उदढमात्रया तस्याभिगमः प्रथम खाल। तस्मान्मामनुमन्यस्व वाग्बाद्वा तं व्रजाम्यहम् । त्वत्मादपि भविष्यामि सकृत्तमभिजग्मुषी ॥१४॥ अहो शुभाशया सत्यसंधेयमिति विस्मयात् । सा पत्याऽनुमता सद्यो निर्ययो वासवेश्मतः ॥ ९५॥ । विचित्ररत्नाभरणा सा यान्ती पथि तथ्यवान् । अरुध्यत धनायद्भिः पाप्मभिः पारिपन्धिकैः ॥ १६॥ सा तथा मालिककथामाख्यायोवाच तस्करान् । हे भ्रातरो ! व्याघुटन्त्या गृह्णीताऽऽभरणानि मे ॥९७ ॥ || स्वभावकथनात्तस्या मन्बानैः सत्यसन्धताम् । आगच्छन्ती ग्रहीष्याम इति चौरैरमोचि सा॥८॥ अग्रे च रक्षसकेन बुभुक्षाक्षामकुक्षिणा । रुरुधे मृगनेत्रा सा मृगीच मृगवैरिणा ॥१९॥ तस्याः स्वभावाऽऽख्यानेन विस्मितो राक्षसोऽपि हि।वलितां मक्षयिष्यामीत्याशयेन मुमोच ताम् ॥१०॥५॥१९८ ।
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy