SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ उत्पश्योऽपश्यदागत्य निश्याम्राणि पुनश्च सः। पचेलिमानि गणको नक्षत्राणीव भूस्थितः ॥ ५४॥ क्षणादेवाऽवनामन्या विद्यासिद्धः स विद्यया । आम्रशाखां नमयित्वा स्वैरमाम्राण्युपाददे ॥ ७॥ प्रातहूनफलामानवाटिकां राज्युदैक्षत । चित्रशालामिव भ्रष्टचित्रामरतिदायिनीम् ॥ ७६ ॥ राज्ञी राज्ञे तदाचख्यौ राजाऽप्यभयमादिशत् । अदृष्टपदसंचारमाम्रचौरं गवेषय ॥७७॥ दस्योर्यस्येहशी शक्तिरतिशायिन्यमानुषी । वत्स ! संभाव्यते तस्मादप्यन्तःपुरविप्लवः ।। ७८ ॥ अवादीदभयोऽप्येवमर्पयिष्यामि तस्करम् । अचिरादेव तं देव ! दर्शनप्रतिभूरिव ॥ ७९ ॥ इति प्रतिज्ञां निर्मायाभयस्तदिवसादपि । पुरेऽहर्निशमभ्राम्यत्तस्य दस्योर्दिक्षया ।। ८० ॥ एकदा च पुरे भ्राम्यन्नभयो धीमतां वरः । कार्यमाणे पुरजनैः क्वापि संगीतके ययौ ॥ ८१ ॥ पौरदत्ताऽऽसनाऽऽसीनोऽभयः पौरानभाषत । न यावदायान्ति नटास्तावदाकर्ण्यतां कथा ॥ ८२ ॥ वसन्तपुरवास्तव्यो जीर्णश्रेष्टयतिनिर्धनः । एकोऽभूतस्य च बृहत्कुमार्येका घरोचिता ॥ ८३ ॥ वरवृन्दारकप्राप्त्यै देवं पूजयितुं स्मरम् । क्वाप्युद्याने चौरिकयोचिच्ये पुष्पाणि सान्वहम् ॥ ८४ ॥ पुष्पचौरं धरिष्येऽहमद्येत्युद्यानपालकः । एकदाऽन्तर्हितो भूत्वा तस्थौ व्याध इव स्थिरः ॥ ५॥ प्राग्वदागत्य विश्रंभात्तां पुष्पाण्यवचिन्यतीम् । दृष्ट्वा रूपवती क्षोभमियायारामिकः स तु ॥ ८६ १ 'गि विचिन्द 11.॥ ॥१०७
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy