________________
१. सप्तमः
NAMPLMMLMORL
भणितो व्यन्तरेणैवमभयो वर्धकि यमात् । आह्वास्त सद्यः सिद्ध नः समीहितमिति ब्रुवन् ।। ११ ।। प्रतिपनं व्यधात् सौघं व्यन्तरोऽपि तथैव तम् । अधिकाः किंकरेभ्योऽपि वाग्त्रद्धा देवयोनयः ॥ ६ ॥ प्रासादमेकस्तंभ तं सर्वर्तुवनमंडितम् । अभयोऽदर्शयद्राज्ञे राजा प्रीतोऽब्रवीददः ।। ६३ ॥ इच्छतां केवलं सौधं सर्वर्तुवनमप्यभूत् । उपक्रान्ते क्षीरपाणे शर्करापतनं ह्यदः ॥ १४ ॥ मुमोच पेलणां नत्र प्रासाद मगधाधिपः । सोऽलंचक्रे तयाऽत्यन्तं पद्महद इव श्रिया ॥ ३५ ॥ राज्ञी तु चेलणा तत्र सर्वप्यानसभवैः । पुष्पैरानर्च सर्वज्ञमुश्चितग्रार्थतः स्वयम् ॥ ६६ ॥ सोऽवचित्य ग्रथितः पुष्पैस्तैरेव चेलणा'सैरंध्रीय स्वयं पन्युः केशपाशमपूरयत् ॥६७ ॥ एवं श्रीवीतरागार्थ पत्यर्थं चावचिन्वती । धर्मकामफलीचक्रे तदनप्रसवानि सा ॥ ६८॥ चलणोपवने नत्र सदापुष्पे सदाफले । श्रेणिकं रमयामास मूतेष वनदेवता॥ ६९॥ विद्यासिद्धस्य मातंगपतेस्तत्पुरवासिनः । पत्न्या अन्येचुरुत्पेदे माकन्दफलदोहदः ॥ ७० ॥ साध्वोचत्पतिमाम्राणि देहि पूरय दोहदम् । मोऽब्रवीदयि ! मूढा त्वमाम्राण्यसमये कुतः ॥ ७१।। मातंगपतिमित्यूचे भार्याय॑सुत ! विद्यते । फलितं घेल्लणोद्याने सहकारवनं सदा ॥ ७२ ॥ सदैव चेल्लणोद्यानसमीपं समुपेयिवान् । अतितुंगान् स मातंगोऽद्राक्षीच तान् सदाफलान् ।। ७३ ॥ १ सौरंधी सैरिधी' D.L.||