________________
ततो नवनयेनेव प्रेम्णा प्रतिदिन नृपः । अरस्त चेल्लणादेव्या श्रीदेव्येष वृषाकपिः ॥ ४८ ॥ अन्येद्युः पार्थिवो दध्यौ चेल्लणा प्रेयसी मम । कः कर्तव्योऽन्यराज्ञीभ्यः प्रसादोऽस्यां विशेषषान् ॥ ४९ ॥ एकस्तंभं तदेतस्याः प्रासादं कारयाम्यहम् । तत्र स्थिता की तु सा विमानस्थेव खेचरी ॥ ५० ॥ उपायमिति निश्चित्य श्रेणिकोऽभयमादिशत् । एकस्तंभं कारयेथाः प्रासादं वेल्लणाकृते ॥ ५१ ॥ अभयोsपि स्तंभयोग्यदार्वानयनहेतवे । आदिशद्वर्धकिं सोऽपि दार्वर्थमदवीं ययौ ॥ ५२ ॥ पन्नेकैकशो वृक्षानदव्यामथ वर्धकिः । वृक्षमेकमुदैक्षिष्ट सर्वलक्षणलक्षितम् ॥ ५३ ॥ arit च महलच्छायोऽभ्रंलिहः पुष्पितः फली । महाशाखो महास्कन्धः सामान्योऽयं तरुर्न हि ॥ ५४ ॥ याशं तादृशमपि स्थानं निर्देवतं न हि । वृक्षराजः पुनरयं श्रियाऽपि व्यक्तदैवतः ॥ ५५ ॥ आराधयामि तपसा तदेतस्याधिदेवताम् । यथाऽमुं छिन्दतो न स्याद्विनः सस्वामिनो मम ॥ ५६ ॥ तनोपोषितो भूत्वा वर्धकिस्तं महातरुम् । भक्त्याऽध्यवासयद्गन्धधूपमाल्यादिवस्तुभिः ॥ २७ ॥ तदाऽभयकुमाराय व्यन्तरस्तद्दुमाश्रयः । आख्यत्तदर्थसिद्ध्यर्थं रक्षार्थं स्वाश्रयस्य च ॥ ५८ ॥ मदाश्रयदुर्नच्छ्रेग्रस्तं निवारय वर्धकिम् । प्रासादमेकस्तंभं हि करिष्याम्यहमेष भोः ॥ ५९ ॥ सर्वर्तुमंडितं सर्ववनस्पतिसमाकुलम् । उद्यानं नन्दनमिष करिष्ये च तदाश्रितम् ॥ ६० ॥
१ "ध्यपूजय' f ॥
।। १९५