SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ . -. . .- . . . स्वाम्याख्यद्धर्मपत्नी ते चल्लणा हि महासती । तामन्यथा मा शंकिष्ठाः शीलालंकारशालिनीम् ॥ ३५ इदं च श्रेणिकः श्रुत्वा पश्चात्तापमुपागतः । सपदि स्वामिनं नत्वा दधावे नगरं प्रति ॥ ३६ ॥ तथा प्रदीपनं कृत्वाऽभ्यायान्तं चाभयं नृपः । अपृच्छदस्मदादेशो भवता किमनुष्ठितः ? ॥ ७ ॥ अभयोऽपि भयादूचे प्रणम्य रचिताञ्जलिः । स्वास्यादेशोऽपरस्यापि प्रमाणं किं पुनर्मम ॥ ३८ ॥ राजा प्रोवाच रे पाप ! दग्ध्वा मातृजनं निजम् । जीवसि त्यं किमद्यापि किं नापप्तः प्रदीपने ? ॥ ३९ ॥ | अभयोऽप्यभ्यधाव ! तार्हद्वचनस्य मे । पलंगवार नाईक ये साहले बताए । अभविष्यत्तदाऽऽदेशो योयमपि मे प्रभोः । तदा पतंगमृतिमप्यन्वष्ठास्यं न संशयः॥४१॥ अकृत्यं मगिराऽप्येवं क्रिमफार्षीरिति ब्रुवन् । सतः पीतविष इव मूर्छयाऽऽलिंगि पार्थिवः॥ ४२ ॥ राजानमभयोऽसिञ्चत् स्वयं शिशिरवारिणा । स्वस्थीभूते च तम्रोचे क्षेममन्तःपुरे प्रभो ! ॥ ४३ ॥ मन्मातृणामप्रसादं प्रभो ! भाग्यविपर्ययात् । अकार्षीर्निग्रहादेशादपराद्धं मया स्वरः ॥ ४४ ॥ जीर्णाः करिकुटीरतात ! शुद्धान्तस्यादवीयसीः । अधाक्षं युष्मदाज्ञामप्यविमृश्य करोमि न ॥ ४५ ॥ राजोचे मम पुत्रोऽसि बुद्धिमानसि चाभय ! समागच्छत्कलंको मे दूरं येनापसारितः ॥ ४६ ॥ पारितोषिकदानेनाऽनुग्रात्याऽथाऽभयं नृपः । अत्युत्कश्चेल्लणादेवीदर्शने सदनं ययौ ॥ ४७ ॥ १ गच्छन् क D. M.IN . -.. - - - - - ॥११४॥ - - -
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy