________________
तस्याः सीत्कारमात्रेणाल्पनिद्रः पार्थिवोऽपि हि । प्रबुद्धस्तद्वचः श्रुत्वा चिन्तयामास चेतसि ॥ २३ ॥ नूनमस्या मनस्यन्यः प्रेयानस्ति रिरंसितः । शीताऽऽर्तिसंभावनया यमेवमनुशोचति ॥ २४ ॥ साम्यन्नया चैवं तां निशां जाग्रदत्यगात् । प्रियजानिरकुहनो* न कदापि सचेतनः ॥ २५ ॥ अन्तरन्तःपुरं गन्तुं प्रातरादिश्य चेल्लणाम् । आहूयाभयमित्यूचे श्रेणिकचण्डशासनः ॥ २६ ॥ ज्ञातमन्तःपुरमभूद्रे दुराचारदूषितम् । तत्सर्वं ज्वाल्यतां मा भूर्मातृमोहादनीदृशः ॥ २७ ॥ इत्यादियामयं राजा राजमानोऽनुतश्रिया । अर्हद्भहारकं वीरस्वामिनं वन्दितुं ययौ ॥ २८ ॥ अभयः सभयस्ताते स्वभावाश्च विमृश्यकृत् । मन्त्रविन्मन्त्रयांचक्रे मनीषी मनसा सह ॥ २९ ॥ सनी मल्लिकाः सर्वा मातरो मे स्वभावतः । तास्वहं कृतरक्षोऽस्मि तातस्याऽऽज्ञा च तादृशी ॥ ३० ॥ संभावितं त्वसंभाव्यं तालपादैः करोमि किम् । नदीपूर इवासाः फोपो हि प्रथमं प्रभोः ॥ ३१ ॥ तथाऽपि चित्रमुत्पाग्र कालक्षेपः करिष्यते । कालक्षेपायदि पुनः प्रभोः कोषो निवर्तते ॥ ३२ ॥ शुद्धान्तनिध जीर्णेभकुटीरभयस्ततः । ज्वालयामास निर्दग्धः शुद्धान्त इति घोषयन् ॥ इतश्च श्रेणिकोऽपृच्छत् समये परमेश्वरम् । एकपत्नी किमनेकपत्नी वा चेल्लणा प्रभो !
३३ ॥
॥
३४ ॥
टि. १५ अकुइनः अनीर्ष्यालुः ।
॥ १९३ ।