SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ तदा च सभवासात्तित्र श्रीज्ञातनन्दनः । सर्वातिशयसंपन्नः सेव्यमानः सुरासुरैः ॥ १० ॥ देव्या वेल्लणया सार्धमपराह्णेऽन्यदा नृपः । वीरं समवसरणस्थितं वन्दितुमभ्यगात् ॥ ११ ॥ वन्दित्वा श्रीमदन्तं वलितौतौ तु दम्पती । जलोपान्ते ददृशतुः भ्रमणं प्रतिमास्थितम् ॥ १२ ॥ निरुत्तरीयं तं शीत परीषहसहं मुनिम् । तौ दम्पती व दाते सपनुत्तीर्य वाहनात् ॥ १३ ॥ तं क्षमाश्रमणं भक्त्या सह पत्न्या महीपतिः । वन्दित्वा स्वं ययौ हर्म्य पुण्यवार्ताः प्रपंचयन् ॥ १४ ॥ निदग्धागरुकर्पूरधूपधूमान्धकारिते । वासागारे ययौ राजा कृत्वा सायोचितां क्रियाम् ॥ १५ ॥ देव्या वेलणया गंडोपधानीकृतदोर्लतः । तद्वक्षसि न्यस्तकरः सुष्वाप श्रेणिको निशि ।। १६ ।। वामनीकृतवक्षोजं गाढमालिंगितस्तया । राजा निद्रामुपेयाय राज्ञी निद्रायते च सा ॥ १७ ॥ निद्राभरे वेल्लणायाः प्रच्छदात् पाणिपल्लवः । बहिर्वभूव निद्रा हि परिरंभविवहनी ॥ १८ ॥ शीतेन दुःसहेनालिकटकेनेव तत्करः । स्पृष्टश्च तद्वेदनया प्रावुध्यत च चेला ॥ १९ ॥ शीतार्त्ता कृतसीत्कारा सा पाणिकमलं निजम् । प्रच्छदान्तर्नृपहृदि निजं मन इब न्यधात् ॥ २० ॥ तदा निरुत्तरीयं तं महर्षि प्रतिमास्थितम् । स्मृत्योवाचेदृशे शीते स कथं हा भविष्यति ॥ २१ ॥ साssससाद पुनर्निद्रां तथैव सरलाशया । दासीव वश्या प्रायेण निद्रा चक्षुद्रचेतसाम् ॥ २२ ॥ सप्तमः सर्गः | ॥ १९२ ॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy