________________
%
250-50
%
भोगान सह तयाऽभुक्त सोऽन्वहं च जनान्दश । प्रबोध्य भव्यान दीक्षार्थ प्रेषीदुपजिनेश्वरम् ॥ ४३२ ॥ क्षीणेऽन्यदा भोगफले तस्य बोधयतः सतः । नवात्रुधञ्जनाष्टकजातीयो दशमो न तु ॥ ४३३ ॥ तस्मिन्नबुध्यमाने सा वेश्या रसवती कलाम । आचख्यो नन्दिषणाय समयज्ञा मुहमुंहः॥४३४॥ सोऽपूर्णाभिग्रहो भोक्तुं नोत्तस्थौ किं तु सादरम् | संट बोधयनस्थाद् गीभिर्विविधभंगिभिः ॥ ४३५ ॥ तदा चोवाच तं वेश्या प्राक्सिद्धान्नं विरस्यभूत् । भूयो निष्पन्नमस्त्यन्नं किं विलम्पयसि प्रभो! ॥४३६ ॥ मन्दिषेणोऽप्यवोचत्तां योधितो दशमो न हि । अहमेवाच दशमः प्रजिष्यामि तत्पुनः ॥ ४३७ ॥ इत्युक्त्वा तां नन्दिषेणो भुक्तं भोग्यफल विवन् । निर्गत्य स्वामिनः पार्श्वे प्रव्रज्यां पुनराददे ॥ ४३८ ॥
आलोच्य तद् दुश्चरितं महात्मा। समं जिनेन्द्रेण स नन्दिषेणः॥ कुर्वन्विहारं निशितं व्रतं च ।
प्रपालयन्देषभुवं जगाम ॥ ४३९ ।। ॥ इत्याचार्यश्रीहेमचन्द्रसूरिविचिते त्रिपष्टिशलाकापुरुषचरिते महाकाव्ये दशमपर्वणि श्रेणिक
सम्यक्त्वलाभ-मेषकुमारनन्दिषणप्रव्रज्यावर्णनो नाम षष्टः सर्गः॥
WOW-RE-RRB%