SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ are aariस्य देवता व्रतवारणी । स्वमानानस्य शस्त्रेण शस्त्रं कुण्ठीचकार च ॥ ४१९ ॥ विष मुमूषरदतस्तस्यावीर्य चकार सा । वहौ च विशतो वह्निमायाऽकृत शीतलम् ॥ ४२० ॥ आत्मानं सोऽथ शैलाग्रादपातयदधान्तरे । तं धृत्वा देवतोवाच न किं स्मरसि मद्वचः ? ॥ ४२१ ॥ नालं भोग्यफलं कर्माभुक्त्वा क्षेप्तुं जिना अपि । तत्प्रतीपं मुधैव त्वमेवमुत्तिष्ठसेऽन्वहम् ॥ ४२२ || इत्युक्तः स नयैकाविहारपरिकर्मभृत्। भिक्षार्थं निर्जगामैकश्चिकीर्षुः षष्ठपारणम् ॥ ४२३ ॥ rasarasोषेण वेश्यावेश्म विवेश सः । धर्मलाभ इति वाचमुवाच च महामुनिः ॥ ४२४ ॥ rasa sorea द्रम्मलाभोऽस्तु केवलम् । इति वेश्या सोपहासविकारा प्रत्युवाच तम् ॥ ४२५ ॥ असौ वराकी हसति किं मामिति विचिन्त्य सः । कृष्ट्वा नीव्रतृणं लब्ध्या रत्नराशिमपातयत् ॥ ४२६ ॥ sarasafarयुक्त्वा स तस्मान्निर्ययौ गृहात् । ससंभ्रमा साऽपि वेश्याऽनुधाव्येति तमभ्यधात् ॥४२७|| तपो दुष्करमुदं भोगान् भुंक्ष्व मया सह । त्यक्ष्यामि सर्वथा प्राणान् प्राणनाथाऽन्यथा ॥ ४२८ ॥ भूयो भूयस्तयेत्युक्तो भोगान् दुःखान् विदापि । भोग्यकर्मवशात्तस्याः प्रत्यपादि वचोऽथ सः ॥ ४२९ ॥ दशाधिकra asati बोधयिष्यामि नो यदि । तदाऽऽदास्ये पुनर्दीक्षां प्रतिज्ञामिति चाकृत ॥ ४३० ॥ त्यक्तर्षिलिंगः सोsवात्सीत्तद्गृहे चिन्तयन् सदा । दीक्षानिषेधिकां वाचं देवताया जिनस्य च ॥ ४३१ ॥ १ मेऽर्थो / ॥ २ कारं ॥ ३ तीं M. ॥ १८९
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy