SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ इतो भवे तृतीये त्वं हस्ती वैताब्यभुव्यभूः । मेरुप्रभाख्यो दावार्तः पयः पातुं सरस्यगाः॥ ३९३ ॥ तत्पंकमनो निःस्थामा प्रतीभेन इतस्ततः । सप्ताहान्ते मृतो विन्ध्ये गजोऽभूराख्यया तया ॥ ३९४ ।। दृष्ट्वा दवानलं जातिं स्मत्वोन्मूल्य द्रुमादिकम् । नद्यां स्वयूथरक्षार्थमकार्षीः स्थण्डिलत्रयम् ।। ३१५ ।। अन्येशुचलिते दावे धावस्त्वं स्थण्डिलान्यभि । तत्र द्वे स्थण्डिले पूर्णे पूर्वायातैर्मृगादिभिः ॥ ३९६ ॥ ते व्यतीत्य तृतीयेऽयाः स्थण्डिले तत्र च स्थितः । गात्रकण्डूयनकृते चरणं समुदक्षिपः ।। ३९७ ॥ अन्योऽन्यसत्त्वसंमर्दपर्यस्तस्तावकस्य तु । समुत्क्षिप्तस्य तस्यांप्रेरधस्ताच्छशकोऽपतत् ॥ ३९८ ॥ तथास्थं शशकं दृष्ट्वा करुणापूर्णमानसः। उत्क्षिप्तपाद एवास्थास्त्रिपदीभृन्मदादिव ॥ ३१९ ॥ सार्धाद् द्वयहाइवे शान्ते जीवा जग्मुः शशादयः । त्वमपि क्षुत्तृषाऽऽक्रान्तः पानीयाय प्रधावितः ॥४०॥ चिरोद्धरणखिन्नैकांघ्रित्वाच न्यपतः क्षितौ । क्षुत्तृष्णाक्लेशविवशस्थ्यहान्मृत्यु त्वमासदः ॥ ४०१॥ शशानुकंपापुण्येनाधुना राजसुमोऽभवः । लब्धं कथंचिन्मानुष्यमिदं नयसि किं मुधा ? ॥ ४०२॥ अप्येकं शशकं त्रातुं कष्टमस्थास्तथा तदा । माध्यघिघटनात्कष्टात् प्रणष्टोऽस्यधुना कथम् ? ॥ ४०३ ॥ एकजीधाभयदानफलमीहक्षमासदः। सर्वजीवाभयदानं प्रतिपन्नोऽसि साधु तत् ॥ ४०४॥ पालय प्रतिपन्न स्वं भवाम्भोधिं समुत्तर । मानुष्यं दुर्लभं हीदं तत्समुत्तारणक्षमम् ॥ ४५ ॥ **5*HAAKANK
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy