________________
सोऽभ्यरण्यं दधावयाऽऽध्मातताम्रारुणाननः । विक्षिपन्नतिरेण तापसान्वमथूनिव* ॥ ३५४ ॥ श्रेणिकोऽपि तमानेतुं हयारूद्वैः सुतैरगात् । मृगयाप्राप्तमृगवत् परिवेष्टयति स्म च ॥ ३५५ ॥ प्रलोभना तर्जन का सादिनां स भर्तमजः । बलवद्वयन्तरग्रस्त इव मेने न किंचन ॥ ३५६ ॥ नन्दिषेणस्य तु वचो निशम्य तमुदीक्ष्य च । स शान्तोऽभूदवधिना जानन् प्राग्जन्म तत्तथा ॥ ३५७ ।। नन्दिषेणोऽपि सपदि कक्षामालम्ब्य तं गजम् । अपरायां दत्तपादोऽध्यारोहन्मुष्टिभित्रिभिः ॥ ३५८ ॥ नन्दिषेणस्य वचसा दन्तघातादिकाः क्रियाः । स कुर्वन् शिक्षित इवाऽऽलानगोचरतां ययौ ॥ ३५९॥ पढें विश्राणयामास श्रेणिकस्तस्य हस्तिनः। प्रसादपानीचक्रे च युवराजमिवाथ तम् ।। ३६० ॥ अपरेऽपि हि कालाद्याः पुत्राः प्रथितविक्रमाः। अभूवन कुलपत्नीषु श्रेणिकस्य महीपतेः ॥ ३६१ ॥ इतश्च विहरन भव्यावयोधाय अगद्गुरुः । सुरासुरपरीवारो ययौ राजगृहं पुरम् ॥ ३६२ ॥ तस्मिन् गुणशिले चैत्ये चैत्यवृक्षोपशोभितम् । सुरप्रकलप्तं समवसरणं शिश्रिये प्रभुः ।। ३६३ ।। श्रुत्वा च समत्रसृतं श्रीवीरं श्रेणिको नृपः । ऋदया महत्या ससुतो वन्दितुं समुपाययो॥ ३६४ ॥ प्रभु प्रदक्षिणीकृत्य नत्वा च श्रेणिको नृपः । निषद्य च यथास्थानमिति तुष्टाव भक्तिमान् ॥ ३६५ ॥ १. सान्मधुपानि' M. रि. *वमथः करसीकरः (शुण्डानिर्गतबिन्दुः)