________________
H
स्वयं यूधपतिर्जज्ञे चिन्तयामास चेतसि । अमुषिमन्नाश्रमे मात्रा मना यस्मि रक्षितः॥ ३४२ ॥ रक्षितेन मयाऽकारि यत्पितुस्तन्ममापि हि । मा कार्षीदाश्रमेऽमुष्मिजातत्रातोऽपरो गजः ॥ ३४३ ।। इति संचिन्त्य निःशेषं भक्त्वा तं तापसाश्रमम् । अकृताऽलक्ष्यसंस्थान स भद्याध इव स्थलम् ।। ३४४ ॥ दास्यते नाश्रमे सौख्यं दुरात्मेति तपस्विनः । तं गजं श्रेणिकायाऽऽख्यन राजाहं सर्वलक्षणैः ॥ ३४५ ।। श्रेणिकोऽपि हृतं गत्वा तं बद्ध्वा करिकुञ्जरम् । समानयत् कौतुकिनः सेनांगेपु हि भूभुजः ॥ ३४६ ॥ प्रसत्यासाह्यस्थामाऽपि संभेऽबध्यत स द्विपः । किमसाध्यं मनुष्याणामभेगमिव पाथसाम् ॥ ३४७ ।। निस्पन्दकरलांगूलकर्णतालः क्रुधा च सः । तस्थावालिखित इव त्रिपदीवर्जितोऽपि सन् ॥ ३४८ ॥ दिष्ट्याऽभूदाश्रमक्षेममिति ते प्रीतचेतसः । तापसा एत्य तं नागमालानितमतर्जयन् ॥ ३४९ ।। लालितः पालितोऽस्माभिः पोषितो वर्धितोऽसि छ । स्वस्थानघातको रे स्वमाश्रयाश इवाभवः ॥ ३५०॥ | अस्मत्कवलदुर्मत्तेनाऽऽश्रमोऽभञ्जि यत्त्वया । तत्कर्मणः फलमिदं प्राप्तोऽस्यालानसौहृदम् ।। ३५१ ।। गजोऽपि चिन्तयामास नूनमेभिस्तपस्विभिः । उपायरचनां कृत्वा प्रापितोऽहमिमां दशाम् ॥ ३५२ ॥ अभांक्षीन्मक्षु स क्रुद्धः स्तंभं कदलीकाण्डवत् । अत्रोटयच्च टिति यन्धनं पिसतन्तुवत् ॥ ३५३ ॥ १ दलि C.D.LI