SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ UNNYM पष्ठः सर्गः . . . .. साऽन्यदा दूरगे तस्मिन् यूथनाये मतंगी । तृणपूलं मूर्ध्नि कृत्वा प्रययौ तापसाश्रमम् ॥ ३२९ ॥ पादपु निपतन्ती सा मस्तके न्यस्तपूलका । अज्ञायि तापसरेषा वराकी शरणार्थिनी ॥ ३३० ॥ विश्वस्ता भव वत्से ! त्वमिति तैरुदिते सति । तत्राश्रमे सुखं साऽस्थात् पितृधाम्नीव कन्यका ॥ ३३१ ।। अन्यदा जातपुत्रा सा पुत्रं तत्राश्रमेऽमुचत् । स्वयं त्वरण्ये यूथान्तर्विचचार तथैव हि ।। ३३२ ॥ सा स्तन्यं कलभायादादागत्यागत्य चान्तरा । शनैश्चाश्रमशाखीय ववृधे कलमोऽपि सः ॥ ३३३ ॥ पक्कनीवारकवलैः शल्लकीकवलैरपि । प्रेम्णा निजं पोतमिव तापसास्तमपोषयन् ॥ ३३४॥ अंके पर्यस्तिकां मूर्ध्नि जटामुकुटमुत्कटम् । स करेण व्यरचयत् पाच क्रीडस्तपस्विनाम् ॥ ३३९ ।। कलशैः सिषिचुर्वृक्षांस्तापसास्तानिरीक्ष्य च । सिषेच सोऽपि पयसाऽऽपूर्यापूर्य निजं करम् ॥ ३३६ ॥ एवं चाश्रमजान वृक्षान् सिञ्चतः प्रतिवासरम् । चक्रुः सेवनक इति नाम सस्य तपस्विनः ॥ ३३७ ॥ करसक्तोन्नतदन्तो मधुपिंगललोचनः । भूमिस्टपुष्करकरः पूर्वासनसमुन्नतः ॥ ३३८ ॥ उच्चैःकुंभो लघुग्रीवः क्रमावनतवेणुकः । शुंडेषदूनलांगूलो विंशत्या शोभिनो नखैः ॥ ३३१ ॥ अपराग्देशयोर्नीचैरुच्चकैर्गावदेशयोः। स सर्वलक्षणैर्व्यक्तः क्रमान्मदमुखोऽभवत् ३४० (त्रिभिर्विशेषकम् ) तेनान्यदा पयः पातुं नदीतीरे प्रसर्पता । स पिता यूथपो दृष्टः कृत्वा युद्धममार्यत ॥ ३४१ ॥ १ अपरादे CD. L. || २ युक्तः 11. । ॥१८॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy