SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ श्रेणिकादय धारिण्या सिन्धुरस्वमसूचितः । गर्भोऽभूज्जनयन्मेघवृष्टौ भ्रमणदोहदम् ॥ ३१५ ॥ राजाऽऽदेशात्सोऽभयेनापूर्यताऽऽराध्य देवताम् । ततो मेधकुमार इत्याख्ययाऽस्त सा सुतम् ॥ ३१६ ॥ इतश्चैकः पुरा विप्रः प्रारेमे यष्टुमध्वरम् । तत्र दासं न्ययुंक्तक दासोऽप्येवं तमब्रवीत् ॥ ३१७ ॥ ददासि यदि मे शेषं तदा स्थास्यामि नान्यथा। विप्रोऽपि तत्पपेदेऽथ दासोऽस्थायज्ञबाटके ॥ ३१८ ॥ शेष लब्य स यासोऽपि साधुन्या पदयौ सदा तत्प्रभावण देवायुर्थद्ध्वा मृत्वा दिवं ययौ ॥ ३१९ ॥ दासजीवो दियश्च्युत्वा श्रेणिकस्य सुतोऽभवत् । नन्दिषेणः स विप्रस्तु षभ्रामानेकयोनिषु ॥ ३२० ॥ इनश्चैकस्मिन्नरण्ये हस्तियूथे महीयसि । एकोऽभूयूथपः स्याम्ना दिग्यारणकुमारवत् ॥ ३२१ ॥ मैष भूचीवनेऽमुष्य वशायूथस्य कामुकः । इति बुद्ध्या स कलभं जातं जातममारयत् ॥ ३२२॥ तयूथगाया एकस्याः करिया उदरेऽन्यदा । स विप्रजीवोऽवातारीद् गुर्विणी साऽप्यचिन्तयत् ॥ ३२३ ॥ पापेनानेन मे पुत्रा बहवोऽपि विनाशिताः । पुत्रं केनाप्युपायेन रक्षिष्याम्यधुना पुनः ॥ ३२४ ॥ इति निश्चित्य सा वातभनपादेव हस्तिनी । बभूव मायया कुण्टा मन्दं मन्द चचार च ॥ ३२५॥ माऽन्ययूथपतेर्भाग्या भवत्वषेति तां वशाम् । स्तोकं स्तोकं ब्रजन यूथनाथस्तां प्रत्यपालयत् ॥ ३२६ ॥ साजीव मन्दगा भूत्वा हस्तिनी तस्य हस्तिनः । अर्धयामेन यामेनामिलदहा दूधहेन वा ।। ३२७ ।। अशक्तैव वराकीयं मिलत्येव चिरादपि । इति हस्ती विशश्वास मारिभिः को न वाच्यते ॥ ३२८ ॥ E१८१
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy