SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ चेल्लणा स्माह ते नाथ! पुत्ररूपेण वैर्यसौ । यस्मिन् गर्भस्थिोऽप्यासीहोहदो नरकावहः ॥ ३०॥ जातोऽप्यत्याजि तेनाय कुलजानां हि योषिताम् । पत्युः क्षेमाकांक्षिणीनां किं पुत्रेणापरेण वा ।। ३०३॥ || श्रेणिकोऽथान्वशाद्राज्ञी ज्येष्ठं त्यक्ष्यसि चेत्सुतम् । तदा तवान्ये पुत्राः स्युन स्थिरा बुबुदा इथ ।।३०४।। एवं पत्युर्निदेशेनानिच्छन्त्यपि हि चेल्लणा । स्तन्यदानादहिमिव तं यालकमपालयत् ॥ ३०५ ।। कान्त्या चन्द्र इवाऽशोकवनिकायामदर्यसौ । अशोकचन्द्र इत्याख्यामिति तस्याऽकरोनृपः ॥ ३०६ ॥ तदा वनान्तस्त्यक्तस्यांगुलिस्तस्य कनिष्ठिका । अकाणि कुक्कुटीपिच्छेनाशोकदलकोमला ॥ ३०७॥ तदा रुदतस्तस्यांगुली पूतिमतीमपि । स्नेहान्मुखेऽक्षिपद्राजा स व्यरंसीच्च रोदनात् ॥ ३०८ ।। रूढवणाऽपि सा तस्य कूणिताभयदंगुलिः । ततः सपांशुरमणैः सोऽभ्यधीयत कूणिकः ॥ ३०९ । क्रमेण चेल्लणादेव्या हृदयाम्भोजभास्करी । सुती हल्लविहलाख्यावभूतामपरावपि ॥ ३१ ॥ ते त्रयश्वेलणापुत्रा नित्यं राज्ञोऽनु चरतुः । प्रभुत्वमंत्रोत्साहानां प्रत्यक्षा इव मूर्तयः ॥ ३११ ॥ पितृद्विष कूणिकायाऽम्या पैषीद्गुडमोदकान् । मत्स्यण्डीमोदकान् हल्लविहल्लाभ्यां पुनः सदा ॥ ३१२ ॥ श्रेणिकः कारयत्येषमिति प्राकर्मदृषितः । कूणिको विमृशन्नित्यं प्रपेदे मध्यम वयः ॥ ३१३ ॥ श्रेणिकोऽपि स्नेहलात्मा महेन महताऽन्यदा । पद्मावतीं राजपुत्री कूणिकेनोदवायत् ॥ ३१४ ॥ १ नुगा वभुः M.॥ ॥१८॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy