SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ अभयोऽपि श्रेणिकस्योदरे शशकजंगलम् । तच्चर्माच्छादितं चफ्रेऽथोत्तानं तमशाययत् ॥ २८९ ॥ अणिकस्यानुज्ञया च ततो रहसि चेल्लणा । जघास मांसमव्यग्रा रक्षसामिव देवता ।। २२० ।। नस्यां च मांसं खादन्त्यामेथमेव महीपतिः । अधीनी नटविद्यायामिवामूच्र्छन्मुहुर्मुहुः ॥ २९१ ॥ चिन्तयन्त्यां पति तस्याश्चकंपे हृदयं क्षणात् । गर्भ पुनश्चिन्तयन्त्याः क्षणादुल्लसति स्म च ॥ २९२ ॥ एवं बुद्धिप्रयोगेण घेल्लणा पूर्णदोहदा । आः पतिघ्न्यस्मि पापाहमिति मोहमुपाययौ ॥ २९३ ॥ राजापि राश्य तत्कालं स्वमक्षतमदर्शयत् । तद्दर्शनादहृष्यच्च पशिनीवार्कदर्शनात् ॥ २९४ ॥ गतेषु मासेषु नवस्वथ चेटकनन्दना । नन्दनं सा प्रसुषुवे मलयो/व चन्दनम् ॥ २९५ ॥ आदिदेशाथ सा दासी पितुर्वैर्यप दारकः । तत्क्यापि त्यजतां दूरे पापः पन्नगपोतवत् ।। २९६ ॥ दास्याऽशोकवनं गत्वा परित्यक्तः स भुयभात । उपपादपदोत्पन्नगीवोंण इव भासुरः॥ २९॥ तत्र तं बालकं त्यक्त्वा दास्यायान्ती महीभुजा । अप्रच्छिक गताऽसीति तागेव च साऽब्रवीत् ॥२९८॥ अशोकवनिकां गत्या राजाऽप्यालोक्य तं सुतम् । द्वाभ्यां जग्राह पाणिभ्यां प्रीतः स्वामिप्रसादयत् २९९ आगत्य चेल्लणां चोचे कुलोत्पन्ने ! विवेकिनि ! किमकारिकमैदमकृत्यं श्वपचैरपि ॥ ३०॥ अपि दुश्वारिणी या स्यादधर्मज्ञातिकर्कशा । पुत्रं *कुंड गोलकं वा साऽपि न येवमुज्झति ॥ ३०१ ॥ दि. मांस | * कुंडो नाम पत्थी मृते मति यः बारेण जायते । * गोलको नाम पल्यौ जीवति यः जारेण जायत ।
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy