________________
ततोऽर्धजरतीयेन कृताकृतसमाहितः । वीरंगकस्तदखिलं चेटकाय व्यजिज्ञपत् ॥ २६३ ॥ दहितहरणात्तेषां रविकानां वधादपि । चेटको पूमरदोषतागाधान्यपूर्ण सृज्येष्ठाऽचिन्तयदहो धिग्धिग्विषयगृध्नुता । सुखकांक्षिभिरीरक्षा यदाप्यन्ने विडम्बनाः ॥ २६५ ॥ इत्थं विरक्ता सुज्येष्ठा स्वयमापृच्छ्य चेटकम् । समीपे चन्दनार्यायाः परिव्रज्यामुपाददे ॥२६६ ।। श्रेणिकोऽपि हि सुज्येष्ठे सुज्येष्ठ इति चिल्लणाम् । अभ्यालपदजानानश्चेल्लणां तत्र तस्थुषीम् ॥ २६७ ॥ खेल्लणाऽकथयत्तस्मै सुज्येष्ठा न समागता । सुज्येष्ठायाः कनिष्ठाऽहं चेल्लणेत्यभिधा मम ।। २६८ ॥ अणिको व्याजहारेवं नायासोऽभून्मुधा मम । सुनु! त्वमपि सुज्येष्ठा तस्या न खस्लु हीयसे ।। २६९ ॥ चेल्लणा पतिलाभेन भगिनीवश्चनेन च । निकामं हर्षशोकाभ्यां समकालमलिप्यत ॥ २७० ॥ श्रेणिकः पवनेनेव रथेनासारंहसा । शीघ्रमाप स्वनगरं पश्चात्तस्याभयोऽपि हि ॥२१॥ गान्धर्वेण विवाहेन परिणीयाथ चेल्लणाम् । राजा नागसुलसयोर्गत्वाऽऽख्यत्तत्सुतान्मृतान् ।। २७२ ।। तो दंपती नृपाच्छ्रुत्वा सुतोदन्तममंगलम् । मुक्तकंठं रुरुदतुर्विलापं चेति चक्रतुः ॥ २७३ ।। रे कृतान्त ! कृतान्तोऽसि पुत्राणां युगपत्कथम् । किमेकशृंखलत्वेन तवाऽभूवन कदाप्यमी ॥ २७४ ।। पक्षिणामप्यपत्यानि भूयास्यपि भवन्ति हि । फ्रमेण तु विपद्यन्ते न ह्येवं युगपत्क्वचित् ॥२७५ ।।
५७1