________________
सुज्येष्ठा तत्प्रभृत्येव स्मरन्ती श्रेणिकं नृपम् । प्रभूतां प्रापदरति रतिनाथवशंषदा ॥ २४९॥ अन्यदा त्वहि निर्णीते श्रेणिकः सुलसासुतैः । द्वात्रिंशता सार्धमागात् सुरंगाद्वारसीमनि ॥ २५० ॥ रथस्थैः सुलसापुत्रैरन्वितोऽथ रथस्थितः । चक्रीव वैताट्यगुहां सुरंगां श्रेणिकोऽविशत् ॥ २५१ ॥ सुरंगानिर्गतं प्रेक्ष्य सुज्येष्ठा मगधेश्वरम् । चित्रदृष्टानुसाराचोपलक्ष्य मुमुदतराम् ।। २५२॥ साऽऽख्याय सर्व वृत्तान्तमापप्रच्छे च चेल्लणाम् । प्रत्यज्ञासीञ्चल्लणापि स्थास्यामि त्वहते न हि ॥ २०३॥ |" रथमारोपयदथ सुज्येष्ठावी हि घेणाम् । इन जगात सामान्तुं द्रुतं रत्नकरंडि काम ।। २५४ ।। ऊचुश्च मुलसापुत्रास्तदा श्रेणिकपार्थिवम् । स्वाभिन्न युज्यते स्थातुं सुचिरं वैरिवेश्मनि ॥ २५५ ॥ आदाय चेल्लणां राजा प्रेरितः मुलसासुतैः । सुरंगग्यैव व्याघुट्य यथाऽऽयातस्तथा गतः ।। २५६ ।। सुज्येष्ठाऽऽगादुपाक्षाय यावद्रत्नकरंडिकाम् । नापश्यच्छ्रेणिकं तावदभ्रान्तर्भूतचन्द्रवत् ॥ २५७ ॥ तदा चापूर्णकामत्वाद्भगिनीहरणादपि । ज्येष्ठाऽरटन्मुषिताऽस्मि हियते हन्त चिल्लणा ॥ २८ ॥ प्राक् चेटकं संनयन्तं रथी वीरंगकस्तदा । उवाच कोऽयमाक्षेपो मयि सत्यपि नाथ! ते ॥ २५९ ॥ ततो वीरंगकः सज्जीभ्य युद्धाय दुर्धरः । सुरंगाद्वारमभ्यागात् कन्याप्रत्याजिहीर्षया ॥ २६ ॥ सुरंगया गच्छतश्च ततश्च सुलसासुतान् । वीरंगको महाबाहुरकैनवेषुणाऽवधीत् ॥ २६१ ।। संकीर्णत्वात् सुरंगायाः स रथी तद्रथानथ । यावदाकप्रयत्तावद्द रेऽगान्मगधाधिपः ।। २६२॥