________________
पष्टः सर्ग:
विसृज्य तापसी तस्थौ कथंचिदथ पार्थिवः । पक्षी विधाय वैशाल्यां यियासुरिव तां स्मरन् ।। २२२॥ मुज्येष्ठाप्रार्थने दत्त्वा शिक्षा राजगृहेश्वरः । अन्येयुः प्रेषयामास दूतं चेटकभूपतेः ॥ २२३ ।। दतोऽपि सद्यो वैशाल्यां गत्वा नत्वा च चटकम् । उवाच वाचिकपटुर्न यच्चटु न वा कटु ॥ २२४ ॥ सुज्येष्ठां याचते त्वत्तो मत्स्वामी मगधाधिपः । न कन्यामार्धनं जातु लज्जायै महतामपि ॥ २२५ ।। चेटकोऽब्रवीदेवमनात्मज्ञस्तव प्रभुः। वाहीककुलजो वाञ्छन् कन्यां हैहयवंशजाम् ॥ २० ॥ समानकुलयोरेव विवाहो हन्त नान्ययोः । तत्कन्यां न हि दास्यामि श्रेणिकाय प्रयाहि भोः ॥ २२७ ॥ दूतेन चागत्य नयाऽऽख्याने श्रेणिभूपतिः । दमासादयामास जिनो भट इवारिभिः ॥ २२८ ॥ अभयोऽपि हि नम्रस्थः पितृपादाजषट्पदः । उवाच तान ! मा शोचीः करिष्ये वः समीहितम् ।। २२० । कलाकलापपाथोविकुभजन्माऽभयोऽपि हि । गृहे गत्वाऽलिखद्रूपं फलके मगधेशितुः ।। २३० ॥ ततो गुटिकया वर्णस्वरभेदं विधाय सः । वणिग्वेशं गृहीत्वा च वैशाली नगरी ययौ ॥ २३१ ॥ उपचेटकराजान्तःपुरं पाऽऽपणमग्रहीत् । तत्रान्तःपुरचेटीनां फ्रेतव्यमधिकं ददौ ॥ २३२ ॥ अभयश्चार्चयन्नित्यं श्रेणिकं लिखितं पटे । दासीपृष्टश्चाऽऽस्यदयं देवो मे श्रेणिको नृपः ॥२६॥ दास्यश्च कथयामासुः सुज्येष्ठायै सविस्मयाः । रूपं तादृग्यथा दृष्टं श्रेणिकस्यातिदैवतम् ॥ २३४ ॥ मुज्येष्ठाऽथ सखीमायां ज्येष्ठदासी समादिशत् । द्रुतमानय तद्रूपं महत्कौतुहलं मम ।। २३५ ।।
॥१७४।