________________
-%MNHM५.२५
नन्दामानन्य नृपतिर्नीत्वा च स्वं निकेतनम् । पट्टराज्ञीपदेऽकार्षीत् सीतामिव रघूद्वहः ॥ १८१॥ ततः स्वसुः सुसेनायाः पुत्री मंत्रिषु धुर्यताम् । राज्यस्यार्धं चाभयाय नृपतिः श्रेणिको ददौ ॥ १८२ ।। भक्तितः पितरि स्वस्य पदातिपरमाणुताम् । मन्वानः साधयामास दुःसाध्यान भूभुजोऽभयः ।। १८३ ॥ इतश्च वसुधावध्वा मौलिमाणिक्यसन्निभा । वैशालीति श्रीविशाला नगर्यस्त्यगरीयसी ॥ १८४ ।। आखण्डल इवाखण्डशासनः पृथिवीपतिः। चेटीकृतारिभूपालस्तत्र चेटक इत्यभूत ॥ १८५ ॥ पृथग्राज्ञीभवास्तस्य बभूवुः सप्त कन्यकाः । सप्तानामपि तद्राज्यांगानां सप्तेष देवताः ॥१८६ ।। प्रभावती पद्मावती मृगावती शिवाऽपि च । ज्येष्ठा तथैव सुज्येष्ठा चेल्लणा चेतिताः फ्रमात् ॥ १८७ ॥ घटकस्तु श्रावकोऽन्यविवाहनियमं वहन् । ददौ कन्या न कस्मैचिवुदासीन इव स्थितः ॥ १८८ ॥ तन्मातर उदासीनमपि ह्यापच्छ्या चेटकम् । वराणामनुरूपाणां प्रददुः पंच कन्यकाः ॥ १८९॥ प्रभावती वीतभयेश्वरोदायनभूपतेः । पद्मावती तु चम्पेशदधिवाहनभूभुजः॥ १९० ॥ कौशाम्बीशशतानीकनृपस्य तु मृगावती । शिया तूज्जयिनीशस्य प्रद्योतथिवीपतेः ॥ १९१ ॥ कुण्डग्रामाधिनाथस्य नन्दिवर्धनभूभुजः। श्रीवीरनाथज्येष्ठस्य ज्येष्ठा दत्ता यथारुचि ॥ १९२॥ सुज्येष्ठा चेल्लणा चापि कुमायोवेव तस्थतुः । रूपश्रियोपमाभूते ते द्वे एष परस्परम् ॥ १९३ ।। ते दिव्याकारधारिण्यौ दिव्यवस्रविभूषणः । अवियुक्त सदाऽभूतां तारे इव पुनर्वसू ॥ १९४ ।।
*5-04