SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ CAKKARAN अभयं श्रेणिकः पुत्रप्रतिपत्त्याथ सस्वजे । बन्धुरज्ञायमानोऽपि दृष्टो मोदयते मनः ॥ १६८ ॥ कुतस्त्वमागतोऽसीति पृष्टः श्रेणिकभूभुजा । आगतोऽस्मि पुरावेणातटादित्यभयोऽवदत् ।। १६९ ॥ राजापृच्छद्रमुख ! 'कि भद्र इति विश्रुतः । श्रेष्ठी तत्रास्ति ? तस्यापि नन्दानाम्नी च नन्दना ? ॥१७॥ अस्त्येव सम्पगित्युको शेम भूयोऽपि भूपतिः । ॐ नन्दोदरिण्यासीत् किमपत्यमजायत ? ।। १७१॥ अथाऽऽख्यत्कान्तदन्तांशुश्रेणिः श्रेणिकसूरिदम् । देवाभयकुमाराख्यं सा नन्दनमजीजनत् ॥ १७२ ॥ | किंरूपः किंगुणः सोऽस्तीत्युक्तेि सति भूभुजा । ऊचेऽभयः स एवाह स्वामिन्नस्मीति चिन्त्यताम् ॥ १७३ ॥ परिष्वज्यांकमारोप्य तमाघ्राय च मूर्धनि । लेहात्स्नपयितुमिव राजाऽसिञ्चद्गंभसा ॥ १७४ ।। कुशलं वत्स! ते मातुरिति पृष्टे महीभुजा । इति विज्ञपयामास बद्धाञ्जलिपुटोऽभयः ॥ १७ ॥ अनुस्मरन्ती गीव त्वत्पादाम्भोजसंगमम् । स्वामिनायुष्मती मेऽम्या पात्योद्यानेऽस्ति संप्रति ॥१७६ ।। नतो नन्दां समानेतुममन्दानन्दकन्दलः । न्ययुंक्त सर्वसामग्रीमग्रेकृत्वा नृपोऽभयम् ।। १७७ ।। ततः स्वयमपि प्राज्योत्कंठोल्लिखितमानसः । नन्दामभिययौ राजा राजहंस इवाब्जिनीम् ॥ १७८ ॥ शिथिलीभूतवलयां कपोलतुलितालकाम् । अनञ्जनाक्षी कयरीधारिणी मलिनांशुकाम् ॥ १७ ॥ तनोस्तनिम्ना वधती द्वितीयेन्दुकलातुलाम् । ददर्श राजा सानन्दो नन्दामुद्यानवासिनीम् ॥ १८० ॥ १ सुम1॥ २ को LI
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy