________________
चलयित्वा चलयित्वा श्रेणिका करंडक दुजे पोपकासोद शलाकाविवरच्युतम् ॥ १०२ ।। रूप्यशुक्त्या घटस्याधो गलद्वार्थिन्दुपूर्णया । स पयोऽपि पपौ किं हि दुःसाध्यं सुधियां धियः ॥ १०३ ॥ एवं परीक्षानियूदं श्रेणिकं बुद्धिसंपदा । अमस्त राज्याहतया कुशाग्रनगरेश्वरः ॥१०४॥ कुशाग्रे चाभवच्छीघ्रं शीघ्रमग्नरुपद्रवः । ततश्चाघोषणां राजा प्रसेनजिदकारयत् ॥१०॥ उत्थास्यति पुरे वहिर्यस्य यस्य गृहादिह । स स निर्वासनीयोऽस्मात् पुरान्मय इवाऽऽमयी ॥ १०६॥ सूपकारप्रमादेन राज्ञ एवाऽन्यदा ग्रहात् । उदस्थादग्निरग्निर्हि न स्वः कस्यापि विप्रवत् ॥१०॥ तस्मिन् प्रदीपने घृद्धिमुपेयुषि महीपतिः। यो यद् गृह्णाति मद्नेहात्तत्तस्येत्यादिशत् सुतान् ॥ १०८॥ सर्व कुमारा हस्त्यादि समादाय यथारुचि । निर्ययुः श्रेणिकस्त्वेका भम्भामादाय निर्ययौ ॥ १०॥ किमेतत्कृष्टमित्युक्तो नृपेण श्रेणिकोऽवदत् । जयस्य चिहं भम्भेयं प्रथमं पृथिवीभुजाम् ॥११॥ अस्याः शब्देन भूपानां दिग्यात्रामंगलं महत् । रक्षणीया क्षमापालैः स्वामिंस्तदियमेव हि ॥११॥ ततश्चैवं महेच्छत्वप्रसन्नः पृथिवीपतिः। श्रेणिकस्य ददौ भम्भासार इत्यपराभिधाम् ॥ ११२॥ इदं च न विसस्मार तदा राजा प्रसेनजित् । उत्तिष्ठेश्यद्गृहादग्निः स पुरे न वसेदिति ॥ ११३॥ ततश्चाचिंतयन्नाऽहमात्मानमनुशास्मि चेत् । सर्वथा तर्हि पर्याप्तं परेषामनुशासनम् ॥ ११४॥ १-२ वल 1॥