________________
धात्रीभिर्लाल्यमानास्ते क्रमानुवृधिरे सुताः । कलभा इव विन्ध्याद्रावखण्डितसमीहिताः ॥ ८९ ॥ प्रांगणे ने रुरुचिरे रममाणाः कुमारकाः । गृहलक्ष्मीविहंगम्याः क्रीडाक्षितिरुहा इव ॥ ९० ॥ उत्संगे नागरथिको ग्राहं ग्राहं कुमारकान् । स्नेहादम्लपर्यादिवाऽऽनन्दजैर्षाष्पवारिभिः ॥ ९१ ॥ पादे कोडे शिरोदेशे लगमानैः कुमारकैः । विरजे नागरथिकः सिंहपोतैरिवाचलः ॥ ९२ ॥ सर्वेऽपि नागरथिनः सूनवो वयसा समाः । ते श्रेणिककुमारस्य बभूवुरनुयायिनः ॥ ९३ ॥ अन्यदा च स्वपुत्राणां राज्यार्हत्वं परीक्षितुम् । एकत्र पावसस्थालान्यशनाय नृपोऽर्पयत् ॥ ९४॥ ततो भोक्तुं प्रवृत्तानां कुमाराणाममोचयत् । व्याधानिक व्यात्तवक्चान् सारमेयान् स सारधीः ॥ १५ ॥ कुमारा द्रुतमुत्तस्थुरापतत्सु ततः श्वसु । एकस्तु श्रेणिकस्तस्थौ धियां घाम तथैव हि ॥ ९३ ॥ सोऽन्यस्थालात्पायमान्नं स्तोकं स्तोकं शूनां ददौ । यावल्लिलिहिरे श्वानस्ताचच्च बुभुजे स्वयम् ॥ ९७ ॥ येन केनाप्युपायेन परानेष निरोत्स्यति । भोक्ष्यते च स्वयं पृथ्वीं राजा तनेति रञ्जितः ॥ ९८ ॥ राजा पुनः परीक्षार्थी सुतानामन्यदा ददौ । मोदकानां करण्डांश्च पयस्कुंभांच मुद्रितान् ॥ ९९ ॥ इमां मुद्रामभञ्जन्तो भुञ्जीध्वं मोदकानसून् । पयः पिबत मा कृवं छिद्रमित्यादिशन्नृपः ॥ १०० ॥ विना श्रेणिकतेषां कोsपि नाऽमुक्त नाऽपिवत् । बुद्धिसाध्येषु कार्येषु कुर्युरूर्जस्विनोऽपि किम् ॥ १०१ ॥
पत्रः सर्ग:
॥१६४॥