SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ सुलसा श्राविकाऽप्यूचे यदि तुष्टोऽसि तन्मम । देहि पुत्रमपुत्राया नान्यविष्टमतः परम् ॥ ७ ॥ द्वात्रिंशतं स गुटिका दत्त्वा देवोऽब्रवीदिदम् । क्रमेण भक्षयरेतास्तावन्तः स्युः सुतास्तव ।। ७६ ।। पुनः प्रयोजनवशात् स्मर्तव्योऽहं त्वयाऽनघे । एष्यामि भूय इत्युक्त्वा त्रिदशः स तिरोदधे ।। ७७ ।। अचिन्तयच्च सुलसा क्रमेण गुटिकाऽदनात् । बाहना बालरूमामा मर्दियति हि गोलिम् । तस्मात्प्राश्नाम्यहं सर्वा युगपद् गुटिका इमाः। यथैकोऽपि भवेत् पुत्रो द्वात्रिंशल्लक्षणान्वितः ॥ ७॥ इत्थं विमृश्य स्वधिया सा प्राश गुटिकाः समाः । तथा बुद्धिरियं जज्ञे नान्यथा भवितव्यता ॥ ८ ॥ उत्पेदिरे तदुदरे गर्भा द्वात्रिंशदप्यथ । तैर्गभैरसहा साभूदल्लीव बहुभिः फलैः ।। ८१॥ सा गर्भान धर्तुमसहा वज्रसारान् कृशोदरी । कायोत्सर्गस्थिता देवं सस्मार पुनरेव तम् ॥ ८२ ।। स्मृतमात्रोपस्थितेन सत्यस्तेनाऽमरेण सा । किं स्मृतोऽस्मीति पृष्टाऽऽख्यत्ता तथा गुटिकाकथाम् ॥ ८॥ देवोऽयदत् किं गुटिका युगपद् भक्षितास्त्वया ? । अमोधाः खल्विमास्तेन गर्भास्तावन्त एव ते ॥ ८४ ॥ न साधु विदधे भद्रे ! त्वयेदमृजुचेतसा । पुत्रास्तुल्यायुषो येवं द्वात्रिंशदपि भाविनः ।। ८५ ॥ मा विषीद महाभागे ! बलिष्ठा भवितव्यता । गर्भपीडापहारं तु करिष्ये सुस्थिता भव ॥८६॥ सुलसाया गर्भपीडामपहृत्य स नाकसद । जगाम साऽभूत्स्वस्था च गूढगर्भा च भूरिव ॥८॥ पूणे फाले च सुलसा शुभेऽहनि शुभे क्षणे । द्वात्रिंशल्लक्षणान् पुत्रान् द्वात्रिंशतमजीजनत् ।। ८८ ॥ XXXREAKICKASH ॥१०३
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy