SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ I पतिव्रतात्वसम्यक्त्वाऽऽर्जवप्रभृतयो गुणाः । तस्यां युगपदावात्सुः सपांशुकीङका इव ॥ ४९ ॥ एकदा नागरथिकोsपुत्रोऽचिन्तयदुच्चकैः । सनालनलिनाकारकरतल्पशयाननः ॥ ५० ॥ पुत्रमुल्लापयिष्यामि लालमिष्यामि चेति मे । अपुत्रस्याऽवकेशीव निष्फलोऽभून्मनोरथः ।। ५१ । न बाल्याद् ब्रह्म विदधे पुत्रवक्त्रं च नैक्षि यैः । धिक् तेषां कामवैवश्यं लोकद्वितयर्वचकम् ॥ ५२ ॥ इति चिन्ताविवर्णास्यं पंकमग्नमिव द्विपम् । पतिं प्रोवाच सुलसा विनयाद्रचिताञ्जलिः ॥ ५३ ॥ हस्तशय्या मुखस्येयं चिन्तामाख्याति नाथ! ते । किं चिन्तयस्यादिश में मां चिन्ताभागिनीं कुरु ॥ २४ ॥ नागोऽप्यख्यदपुत्रोऽस्मि पुत्रकौतूहलं च मे । न किंचिदस्त्यौपयिकं पुत्रीयं पुत्रकाम्यतः ॥ ५५ ॥ सुलसोवाच कन्यास्त्वं बह्रीः परिणयाऽपराः । पुत्रप्रसविनी तासु किमेकापि न भाविनी १ ॥ ५६ ॥ नागोऽप्यूचे त्वयैवाहं जायावानिह जन्मनि । जायाभिः कृतमन्याभिस्तत्पुत्राणां तु का कथा ॥ २७ ॥ त्वदंगसंभवं पुत्रमिच्छामि प्रियदर्शने ! स आवयोः प्रीतिवल्लेः फलायेत चिरादपि ॥ ५८ ॥ त्वं प्राणास्त्वं प्रतिवपुस्त्वं मन्त्री त्वं च मे सुखा । तद्यतस्व सुतार्थेऽस्मिनुपयाचितकादिभिः ॥ ५९ ॥ सुलसोचे करिष्येऽहमर्हदाराधनां प्रिय ! | अर्हदाराधनैका सर्वकार्येषु कामधुक् ।। ६० ।। आचामाम्लादिभिरथ तपोभिरतिदुस्तपैः । आजन्मापि पवित्रं स्वं पावयन्ती विशेषतः ॥ ३१ ॥ १ पुत्रार्थ || २ "म्मादि C | "स्मात्रि / ॥ ॥ १६१
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy