SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ numar सेनकोऽपि भ्रमन्नकं दृष्ट्वा कुलपति घने । तत्पाचे तापसो भूत्वा गृह्णाति स्मोक्ट्रिकाग्रतम् ॥ २३ ॥ तीव्रण बोलतपसा स्वमत्यन्तं कदर्थयन् । घसन्तपुरमेवाऽऽगादपरद्युः स तापसः ॥२४॥ मंत्रिसूस्तापसश्चेति तमानर्च जनोऽखिलः । वैराग्यकारणं पृष्टः कथयामास चेति सः ॥ २५॥ सुमंगलकुमारेण रूपमेतदहासि मे । वैराग्यं तेन मे जानं सत्यंकारस्तपःश्रियः ॥ २६ ॥ नच्छ्रुत्वा तं नमस्कर्तुं सुमंगलनपोऽभ्यगात् । क्षमयित्वा पारणाय न्यमंत्रयत चाऽऽदरात् ॥ २७ ॥ सोऽपि राज्ञे प्रदत्ताशीरनुमेने तदर्थनाम् । कृतकृत्य श्यागाच राजापि निजवेश्मनि ॥ २८ ॥ पूर्णेऽथ मासक्षपणे नृपतेः प्रार्थनां स्मरन् । शान्तात्मा राजभवनद्वारमाप स तापसः ॥ २९॥ शरीराऽसौष्ठवमभूत्तदा च पृथिवीपतेः । द्वारं घ पिदधे द्वास्थः कस्तदा भिक्षुमीक्षते ॥ ३० ॥ स्खलितो द्वारदानेन सेतुनेव जलप्लयः । पंथा यथागतेनैव तपस्वी व्याजुघोट सः ॥३१॥ निश्चित्य मासक्षपणं ययौ च पुनरुष्ट्रिकाम् । नचाकुप्पत्तपोवृद्धो दृष्यन्ति हि महर्षयः ॥ ३२ ॥ स्वस्थीभूतो द्वितीयेऽह्नि भक्तो राजा तपस्विषु । गत्वा नत्वा क्षमयित्वा पुनरेवमुवाच तम् ॥ ३३ ॥ निमन्त्रितोऽसि पुण्याय मयाऽघं पुनर्जितम् । प्रायः पापनिवासानां पापमवातिथीयते ॥ ३४ ॥ तवान्यत्रापि भगवनिषिद्धं पारणं मया । अदातुर्हि प्रियालापोऽन्यत्र लाभान्तरायकृत् ॥ ३५॥ १ तपसा नित्यं स्व। ॥ २ यया C.L || ३ 'चीय" L॥ - 5-५-२५२५-५
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy