SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ ॥ अथ षष्ठः सर्गः ॥ इतश्चाऽचैव भरते कुशाग्रपुरपत्तने । कुशाग्रीयमतिरभूत् प्रसेनजिदिलापतिः ॥ १ ॥ अलंकृताऽशेषदिकस्तस्यापारो यशोऽर्णवः । जग्रसे विद्विषां कीर्तिनिर्झरिणीः समन्ततः ॥ २ ॥ तस्याऽभूत् केवलं राज्यशोभायै सैन्यसंग्रहः । यत्प्रतापाऽनलेनैव वैरिव्याघ्राननाशयत् ॥ ३ ॥ स्वल्योऽद्रिणा वायुरपि दभोलिरपि वर्द्धिना । आज्ञा तस्य पुनः पृथ्व्यामस्खल्यत न केनचित् ॥ ४ ॥ स प्रसारितपाणिभ्यो याचकेभ्यो ददद्वसु । तेषामिव स्पर्धया स्वं न पार्णि समकोचयत् ॥ ५॥ हित्वा स्वस्वपतीन् जातेऽन्धकारे रणरेणुभिः । तमालिलिंगुः सर्वांगं जयलक्ष्म्योऽभिसारिकाः ॥ ६ ॥ शुद्धे मनसि तस्याभूत्सदाचारशिरोमणेः । जिनधर्मः स्थिरः सान्द्रे केशपाशेऽधिवासवत् ॥ ७ ॥ श्रीमत्पार्श्वजिनाधीशशासनाम्भोजषट्पदः । सम्यग्दर्शन पुण्यात्मा सोऽणुव्रतधरोऽभवत् ॥ ८ ॥ राज्ञां कन्याभिरूढाभिस्तस्योर्वीशशिरोमणेः । अवरोधोऽभवद् भूयान् दिवीव दिविषत्पतेः ॥ ९ ॥ १ वजिणा । २ ख ८ ॥ ॥ १५७
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy