________________
प्रत्यक्षं नोपलम्यास्ते युक्तिगम्या भवादृशाम् । प्रत्यक्षा एव ते सन्ति क्षायिकज्ञानिनां पुनः ॥ १४४ ॥ क्षायिकज्ञानिनोऽप्यत्र नो सन्तीति स्म मा ब्रवीः । मयैव व्यभिचारोऽस्या आशंकायाः परिस्फुटः ॥ १४५।। इति श्रुत्वा प्रतिबुद्धोऽकंपितः स्वामिनोऽन्तिके । उपाददे परिव्रज्यां त्रिभिः शिष्यशतैः समम् ॥ १४३ ।। अथाऽऽगादचलनाता प्रभुं प्रभुरपि स्फुटम् । ऊचे तवाचलभ्रातः ! सन्देहः पुण्यपापयोः ॥ १४७ ॥ मा कृथाः संशयं तत्र यत्फलं पुण्यपापयोः । प्रत्यक्षं दृश्यते लोके तथैव व्यवहारतः ॥ १४८ ॥ दीर्घमायुः श्रियो रूपमारोग्यं जन्म सत्कुले । इत्यादि पुण्यस्य फलं विपरीतं तु पाप्मनः ॥ १४९ ॥ इत्थं भगवता च्छिन्नसंशयः समुपाददे । प्रव्रज्यामचलभ्राता त्रिभिः शिष्यशतैः सह ॥ १५० ॥ तार्यः स्वामिनमगात् स्वाम्यूचे तव धीरियम् । भवान्तरप्राप्तिरूपः परलोको न विद्यते ॥ १५१ ॥ भूतसंदोहरूपत्वाज्जीवस्येह चिदात्मनः । परलोकः कथं भूताऽभावे तस्याप्यभावतः ॥ १५२ ॥ तदसत् खलु जीवस्य भूतेभ्यो हि स्थितिः पृथक् । पिण्डितेष्वपि भूतेषु चेतनानुपलम्भतः ॥ १५३ ॥ भूतेभ्यश्चेतनाऽप्येवं जीवधर्मतया पृथक् । परलोकगतिस्तत्स्याज्जातिस्मृत्यादितोऽपि च ॥ १५४ ॥ इत्थं प्रबुद्धो मेतार्यः समीपे स्वामिपादयोः । शिष्यत्रिशत्या सहितः परिवज्यामुपाददे ॥ १५५ ॥ प्रभुमागात् प्रभासोऽपि तमूचे भगवानपि । निर्वाणमस्ति नो वेति प्रभास ! तव संशयः ॥ १५६ ॥ मा संशयिष्ठा निर्वाण मोक्षः कर्मक्षयः स तु । वेदात् सिद्धं कर्म जीवाऽवस्थावैचित्र्यतोऽपि च ॥ १५७ ॥
॥ १५३ ॥