SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ तथाहि स्युर्नृपाः केपि हस्त्यश्वरथवाहनाः । फपिसम नवे पाप दारिणो जिन्यावहः । १.४॥ सहस्रकुक्षिभरयो भवन्त्येके महर्द्धयः । भिक्षया स्वोदरमपि पूरयन्त्यपरे पुनः ॥ १० ॥ देशकालादितुल्यत्वेऽप्येकस्य व्यवहारिणः । भूयिष्ठो जायते लाभो मूलनाशोऽपरस्य तु ॥ १०६ ।। एवंविधानां कार्याणां ज्ञेयं कर्मेव कारणम् । न विना कारण कार्यवैचित्र्यमुपजायते ॥ १०७॥ मूर्तानां कर्मणां जीवनामूर्तेन च संगमः। समीचीनः सोऽपि नूनमाकाशघटयोरिव ॥ १८ ॥ उपघाताऽनुग्रहाश्च नानाविधमुरौषधैः । अमूर्तेऽपि भवन्तीति निरवद्यमदोऽपि हि । १०९ ॥ एवं च स्वामिना च्छिन्नसंशयस्त्यक्तमत्सरः । अग्निभूतिः प्रववाज शिष्यपञ्चशतीयुतः॥ ११ ॥ तस्मिन्नपि प्रबजिते वायुभूनिय॑चिन्तयत् । जितो मे भ्रातरौ येन सर्वज्ञः खल्वयं ततः ॥ १११ ॥ नदेतस्य भगवतोऽभ्यर्हणावन्दनादिभिः । धौतकल्मषकालुष्यः स्यां छिननि च संशयम् ॥ ११२ ॥ एवं विचिन्त्य सोऽप्यागात् स्वामिनं प्रणनाम च । स्वाम्यप्युवाच जीवः स तद्वपुश्चेति ते भ्रमः॥११३॥ प्रत्यक्षाद्यग्रहणेन जीवो भिन्नस्तनोर्न हि । जलचुबुददत्सोऽङ्गे मूर्च्छतीति तवाशयः ॥ ११४ ॥ मिथ्या सहेशप्रत्यक्षो जीवः सर्वशरीरिणाम् । तद्गुणानामीहादीनां प्रत्यक्षत्वात्स्वसंविदा ॥ ११५ ॥ देहेन्द्रियातिरिक्तः स इन्द्रियाऽपगमेऽपि यत् । इन्द्रियार्थान् संस्मरति मरणं च प्रपद्यते ॥ ११६ ।। १ 'रसौD, I.IN
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy