________________
परिग्रहधियं धत्ते धर्मोपकरणेऽपि यः । चालानविदिततत्त्वान् स रञ्जयितुमिच्छति ॥ ९० ।। जलज्वलनवायीतरुत्रसतया बहन । जीवांस्त्रातं कथमलं धर्मोपकरणं विना ॥२१॥ गृहीतोपकरणोऽपि करणत्रयदूषितः । असंतुष्टः स आत्मानं प्रतारयति केवलम् ॥१२॥ इन्द्रभूतिर्विभाव्यैवं शिष्याणां पञ्चभिः शतैः । सम जग्राह धर्मोपकरणं त्रिदशार्पितम् ॥१३॥ तं च श्रुत्वा प्रव्रजितमग्निभूतिरचिन्तयत् । तेनेन्द्रजालिकनेन्द्रभूतिनं प्रतारितः ॥ ९४॥ गत्वा जयाम्पसर्वज्ञमपि सर्वज्ञमानिनम् । आनयामि भ्रातरं वं माययैव पराजितम्॥१५॥ सर्वशास्त्ररहस्यज्ञमिन्द्रभूति महामतिम् । कोऽलं जेतुं विना मायां माया जैत्री त्वमायिषु ॥ १६ ॥ स चेन्मे संशयं ज्ञाता छेत्ता च हृदयस्थितम् । तदाऽहमपि तच्छिष्यः सशिष्योऽपीन्द्रभूतिवत् ॥१७॥ अग्निभूतिर्विमृश्यैवं पञ्चशिष्यशताऽऽवृतः । ययौ समवसरणे तस्थौ चोपजिनेश्वरम् ॥९८ ॥ तमालपत्प्रभुर्विमाग्निभूने ! गोतमान्वय! । अस्ति वा नास्ति किं कमेत्येष ते संशयो सृदि ॥ १९ ॥ प्रत्यक्षादिप्रमाणानामगम्यं कर्म मूर्तिमत् । कथंकारं स बनीयाजीवो मूर्तत्ववार्जेतः ॥१०॥ उपघाताऽनुग्रहाश्च कथं मूतेन कर्मणा । जीवस्य स्युरमूर्तस्येत्याशंका हि मुधैव ते ॥ १०१ ।। प्रत्यक्ष कर्माऽतिशयज्ञानिनां त्वादृशां पुनः । अनुमानाभिगम्यं तजीववैविध्यदर्शनात् ॥१०॥ कर्मणामेव वैचित्र्याद्भवन्ति च शरीरिणाम् । सुखदुःखादयो भावास्तत्कर्मास्तीति निश्चिनु ॥ १०३॥
१४७