________________
पंचम:
सर्गः
संशयं हृदयस्थं मे भाषते च छिनत्ति च । यद्यसो ज्ञानसंपत्त्या तदाऽऽश्चर्यकरः खलु ॥ ७६ ।। इत्यन्तः संशयधरं तमूचे परमेश्वरः । अस्ति जीवो न येत्युश्चर्विद्यते तव संशयः ॥ ७ ॥ अस्त्येव जीवः स पुन यो गौतम ! लक्षणैः । चित्तचैतन्यविज्ञानसंज्ञाप्रभृतिभिः खलु ॥ ७८ ॥ न जीवोऽवस्थितश्चेत्स्याद्भाजनं पुण्यपापयोः । यागदानादिकं तर्हि किंनिमित्तं नवाप्यहो! ॥ ७९ ॥ इति स्वामिवचः श्रुत्वा मिथ्यात्येन सहैव सः । उज्झानकार सन्देहं स्वामिनं प्रणनाम च ॥ ८० ॥ ऊचे च त्वत्परीक्षार्थ दर्वद्भिरहमागमम् । उत्तंगवृक्षमुदाक्तः प्रमातुमिव वामनः॥ ८ ॥ बोधितोऽस्मि त्वया साध दृष्टोऽप्येषोहमद्य तत । भवाद्विरतं प्रव्रज्यादानेनानगृहाण माम ॥ ८२ आयं गणधरं ज्ञात्वा भाविन तं जगदगुरुः। स्वयं प्रव्राजयामास पञ्चशिष्यशतीयुतम् ॥ . उपनीतं कुबरेण धर्मोपकरणं ततः । त्यक्तसंगोऽप्याददानो गौतमोऽधेत्यचिन्तयत् ॥ ८४ ॥ निरवद्यत्रतत्राणे यदेतदुपयुज्यते । वस्त्रपात्रादिकं ग्राह्य धर्मोपकरणं हि तत् ॥ ८॥ छद्मस्थैरिह पड्जीवनिकाययतमापरः। सम्यक् माणिदयां कर्तुं शक्येत कथमन्यथा ॥ ८॥ यच्छुद्धमुद्गमोत्पादेषणाभिर्गुणसंयुतम् । गृहीतं सदहिंसायै तद्धि ग्राह्यं विवकिना ॥८॥ ज्ञानदर्शनचारित्राऽऽचारशक्तिसमन्वितः । आद्यन्तमध्येष्वमूढसमयार्थ हि साधयेत् ॥८८॥ ज्ञानाञ्चलोकहीनो यस्त्वभिमानधनः पुमान । अस्मिन् परिग्रहाऽऽशंकां कुरुते स हि हिंसकः ॥ ८९॥ |
॥१४८॥