________________
मंत्रेणास्माभिराहूताः प्रत्यक्षा नन्वमी सुराः । इह यज्ञे समायान्ति प्रभावं पश्यत क्रतोः ॥ ६३ ॥ त्यत्तवा चण्डालवेदमेव यज्ञबाट सुरेषु तु । प्रति समवसरणं यात्सु लोकोऽब्रवीदिति ॥ ६४॥ उदाने समवस्तः सर्वज्ञोऽतिशयान्वितः। तं वन्दितुं सुराः यान्ति पौराश्चामी प्रमोदिनः ॥ ६ ॥ मर्वज्ञ इत्यक्षराणि श्रुत्वाऽऽक्रोशमिवोच्चकैः । इन्द्रभूतिः प्रकुपितः स्वानेवमवदजनान् ॥ ६६ ॥ मा त्यत्तवा किममी यान्ति पाखण्डिनममुं जनाः । त्यक्त्वा चूतमिवाऽविज्ञाः करीरं मरुमानुषाः ॥१७॥ ममापि पुरतोऽत्रास्ति सर्वज्ञ इति कोऽपि किम् । पञ्चाननस्य न हाने भयत्यन्यः पराक्रमी ।। ६८ ॥ मनुष्या यद्यमी मूखो यान्त्येनं यान्तु तन्ननु । देवाः कथममी यान्ति दमः कोऽप्यस्य तन्महान् ॥ ६९॥|| याहशो वैष सर्वज्ञो देवा अपि हि तादृशाः । यदि वा यादृशो यक्षो जायते तादृशो यलिः ॥ ७० ॥ अस्य सर्वज्ञतादर्पमसावपहराम्यहम् । देवानां मानवानां च पश्यतामेव संप्रति ॥ ७१ ॥ सोऽहंकारादुदीर्येवं शिष्यपंचशतीतः । ययौ समवसरणे वीरं सुरनरावृतम् ॥ ७२ ॥ नवर्द्धि स्वामिनः प्रेक्ष्य रूपं तेजश्च नादृशम् । किमेतदिति साश्चर्य इन्द्रभूतिरवास्थित ॥ ७३ ॥ भी गौतमेन्द्रभूते ! किं तव स्वागतमित्यथ । सुधामधुरया वाचा तं बभाषे जगद्गुरुः ॥ ७४ ॥ गौतमोऽचिन्तयन्मेऽसौ गोत्रं नाम घ वेत्ति किम् ? । जगत्प्रसिद्धमथवा को जानाति न मामिह ॥ ७ ॥ १ 'मानुषा । || २ || ३ 'रिवा' ॥