SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ सिद्धायिका तथोत्पन्ना सिंहयाना हरिच्छविः । समातुर्लिंगयल्लक्यौ वामबाहू च बिभ्रती ॥ १२॥ पुस्तकाऽभययौ चोभी दधाना दक्षिणी भुजौ | अभूतां ते प्रभोर्नित्याऽऽसन्ने शासनदेवते ॥१३॥ (त्रिभिर्विशेषकम्) उपकारार्हलोकानामभावात्तत्र च प्रभुः। परोपकारकपरः प्रक्षीणप्रेमअन्धनः ॥१४॥ तीर्थकृन्नामगोत्राऽऽख्यं कर्म वेद्यं महन्मथा । भव्यजन्तप्रयोधेनानुभाव्यमिति भावयन ॥ १५ ॥ शुसन्निकायकोटीभिरसंख्याताभिरावृतः । सुरैः संचार्यमाणेषु स्वर्णाब्जेषु दधत्क्रमौ ॥ १६॥ स्फुटे मार्गे दिन इव देवोद्योतेन निश्यपि । द्वादशयोजनाऽध्वानां भव्यसत्त्वैरलंकृताम् ।। १७ ॥ गौतमात्रैः प्रयोधाहेंभूरिशिष्यसमावृतैः । यज्ञाय मिलितर्जुष्टामपापामगमत्पुरीम् ॥ १८ ॥ (पंचभिः कुलकम्) तस्या अदूरे पुर्याश्च महासेनवनाभिधे । उद्याने चारुसमवसरणं विवुधा व्यधुः ॥११॥ सञ्जातसर्वातिशयः स्तूयमानः सुरासुरैः । पूर्वद्वारेण समवसरणं प्राविशत्प्रभुः ॥ २० ॥ द्वात्रिंशद्वनुरुत्तुंगं रत्नच्छंदच्छविर्निभम् । ततः प्रदक्षिणीकृत्य चैत्यवृक्षं जगद्गुरुः ॥ २१ ॥ नमस्तीर्थायेत्युदित्या पालयमाईती स्थितिम् । सपादपीठे न्यषदत्पूर्वसिंहासने प्रभुः ॥२२॥ १ स्वमानाद् द्वादशगुणं र' L, D1 दाविशदनु ८ ॥ २ चक्रे C, D, AN II
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy