SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ॥ अथ पंचमः सर्गः ॥ जगन्नाथोऽथ तत्रर्जुपालिकोत्तररोधसि । श्यामाकनाम्नो गृहिणः क्षेत्रे शालतरोस्तले ॥ १ ॥ ashtraस्यासन्ने षष्ठेनोत्कटिकासनी । मुहर्ते विजये स्वामी तस्थावातापनापरः ॥ २ ॥ ( युग्मम् ) शुक्लध्यानान्तरस्थस्य क्षपकश्रेणिवर्तिनः । स्वामिनो घातिकर्माणि तुत्रुदुर्णरज्जुवत् ॥ ३ ॥ वैशाखश्वेतदशम्यां चन्द्रे हस्तोत्तरागते । यामे चतुर्यो भर्तुरुदपद्यत केवलम् ॥ ४ ॥ विज्ञायाssसनकंपन केवलज्ञानमीशितुः । इन्द्राः सह सुरैस्तत्र समाजग्मुः प्रमोदिनः ॥ ५ ॥ केऽप्युत्पेतुः केऽपि पेतुर्ननृतुः केऽपि केऽपि च । जहसुः केऽपि च जगुचकुः केऽपि सिंहवत् ॥ ६ ॥ astra बहुः केऽपि हस्तियत् । रथवत् केऽपि चीचकुः प्रच्चकुः केऽपि नागवत् ॥ ७ ॥ स्वामिनः केवलोत्पत्या हृष्टात्मानोऽपरेऽपि हि । चतुर्विधा दिविषदो विविधं विचिचेष्टिरे ॥ ८ ॥ प्रतिमं चतुर्द्वारं प्रत्रितयभूषितम् । चक्रुः समवसरणं यथाविधि दिवौकसः । ९ ।। न सर्वविरहः कोऽप्यन्त्रेति विदन्नपि । कल्प इत्यकरोत्तत्र निषण्णो देशनां विभुः ॥ १० ॥ 5 तत्तीर्थजन्मा मातंगो यक्षः करिरथोऽसितः । वीजपूरं भुजे वामे दक्षिणे नकुलं दधत् ॥ ११ ॥ पंचमः सर्ग: |॥१४२॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy