SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ तुर्मासक्षपणानि नव द्विमासिकानि षट् । मासिकानि द्वादशार्धमासिकानि द्विसप्तति ॥ ६५२ ॥ एकं पाण्मासिकं द्वे त्रिमासे द्वे सार्धमासिके । सार्वद्विमासिके द्वे च भद्रादिप्रतिमात्रयम् ॥ ६५३ ।। महानगर्या कौशाम्यामभिग्रहसमन्वितम् । अहोभिः पंचभिन्यूनमेकं षाण्मासिकं तथा । ६५४ ॥ प्रतिमाचैकराचिक्यो द्वादशाष्टमभक्ततः । चरमायां विभावर्यां कायोत्सर्गसमन्विताः ॥ ६६५ ॥ एकोनत्रिंशदधिके द्वे च षष्टशते प्रभोः । नित्यभक्तं चतुर्थं च बभूव न कदाचन ॥ ६५६ ॥ प्रभोरेकोनपंचाशं पारणाहशतत्रयम् । व्रताहाचेत्यभूत् साध द्वादशाब्दी सपक्षिका ।। ६५७ ।। कृत्वा तपो जलविहीनमशेषमित्थं छस्थ एव विहरन् विजितोपसर्गः । स्वामी जगाम ऋजुपालिकया महत्या नया सनाथमथ जृम्भकसन्निवेशम् ॥ ६५८ ॥ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशला कापुरुषचरिते महाकाव्ये दशमपर्वणि श्रीमहावीरद्वितीयसाप्रषड्वार्षिकास्थविहारवर्णनो नाम चतुर्थः सर्गः ॥ ॥ १४१
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy