SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ K.R...REK74 सिद्धार्थोऽप्यवदत् केयं वाचोयुक्तिस्तवाधुना 1 न कालो वचमामेषां चिकित्स्यो भगवान खलु ॥ ६३८ । नयोब्रुवाणयोरेवं निरपेक्षः प्रभुर्ययौ । तस्थौ च अहिरुयाने शुभध्यानपरायणः ॥ ६३९ ॥ सिद्धार्थखरको तौ च गृहीत्या भेषजादिकम् । तत्रोद्याने त्वरावन्तो भगवन्तमुपेयतुः ।। ६४० । तैलद्रोण्यां विनिवेश्य तैलेनाभ्यज्य च प्रभुम् । संवाहकैबलीयोभिस्तावमर्दयतामथ ॥ ६४१॥ श्लथेषु मर्दनात्संधिष्वोजस्विपुरुषैः प्रभोः । संदंशाभ्यामकृष्येतां युगपत्कर्णकीलको ॥ ६४२॥ कीलयं सरुधिरं निर्ययो कर्णरन्भागोः · अवशिष्ट बेननीय मर्म साक्षादिन प्रभोः ॥ ६४३ ।। तथाऽभूद्वेदना कीलकर्षणेन यथा प्रभुः । रराम भैरबारावं वज्राहत इवाचलः ॥ ६४४ ॥ नाऽस्फुटत् स्वामिमाहात्म्यात्तेन नादन मेदिनी। विपद्यपि हि माऽर्हन्तः परोपद्रवकारिणः ॥ ६४५ ॥ संरोहण्या रोहयित्वा कर्णो नाथं प्रणम्य च । क्षमयित्वा च सिद्धार्थखरको गृहमीयतुः ॥ ६४६ ॥ वेदनामपि तो भर्तुः कृतवन्तौ शुभाशयो । बभूवतुः सुरलोकश्रीभाजनमुभावपि ।। ६४७॥ । दुष्टाशयस्तु गोपालो विधाय स्वामिवेदनाम् । सप्तमावनिदुःखानां भाजनं समजायत ॥ ६४८॥ स्वामिनों भैरवारावान्महाभैरवमित्यभूत् । तदुग्रानं तत्र देवकुलं च विदधे जनैः ॥ ६४९ ॥ एवं श्रीवीरनाथस्योपसर्गेष्वखिलेष्वपि । जघन्येषूत्कृष्टं कटपूतनाशीतमुत्कटम् ॥ ६५० ।। कालचक्रं मध्यमेषूत्कृष्टेषूद्धरणं त्विदम् । गोपारब्धा उपसर्गा गोपेनैव च निष्ठिताः॥ ६५१ ॥ (युग्मम्) RIGANGANAGRICKERICANA + . .
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy