________________
मोति स्वविया कुत्रीः । तत्की लेकवहिर्भागं छिस्वा गोपालको ययौ ॥ ६२५ ॥ प्रणष्टमायामिथ्यादिशत्योऽपि श्रुतिशल्य भाग् । अकम्पितः शुभध्यानादपापां मध्यमां ययौ ॥ ६२६ ॥ पारणार्थं प्रभुस्तन्न सिद्धार्थवणिजो गृहे । जगाम भगवांस्तेन भक्त्या च प्रतिलाभितः ॥ ६२७ ॥ पूर्वायातस्तत्र वैद्यः सिद्धार्थस्य सुहृत्प्रियः । खरकाख्यः प्रभुं प्रेक्ष्य सूक्ष्मधीरब्रवीदिदम् ॥ ३२८ ॥ अहो भगवतो मूर्तिः संपूर्णा सर्वलक्षणैः । परं शल्यवती चेयं म्लानत्वेनोपलक्ष्यते ॥ ६२९ ॥ सिद्धार्थः संभ्रमादुचे ययेवं तन्निरूपय । सम्यग्भगवतो देहे क्व शल्यं हन्त तिष्ठति ? ॥ ६३० ॥ drishyagi पन्नखिलं स्वामिनो वपुः । ददर्श कर्णयोः कीलौ सिद्धार्थस्याप्यदर्शयत् ॥ ६३१ ॥ सिद्धार्थोऽथावदत् केनाप्यपवादादभीरुणा । नरकादप्यभीतेन चक्रेऽवः कर्म दारुणम् ॥ ६३२ ॥ कृतं वा तस्य पापस्य कथमाऽप्यनया सखे ! नाथस्य शल्योद्धाराय प्रयतस्व महामते ! ॥ ६३३ ॥ स्वामिनः कर्णयोः शल्ये पीडा तु महती मम । विलम्ब न सहेऽत्रार्थे सर्वस्वमपि यातु मे ॥ ६३४ ॥ कर्णाभ्यां विश्वनाथोद्धृतयोरिह शल्ययोः । मन्ये भवमहाम्भोधेरावामेव समुद्धृतौ ॥ ३३५ ॥ वैद्यsयुवाच नाथोऽयं विश्वत्राणक्षयक्षमः । कर्मक्षयायोपैक्षिष्ट तं नाऽशक्त्याऽपकारिणम् ॥ ३३६ ॥ कथं चिकित्सनीयोऽयं निरपेक्षो वपुष्यपि । यः कर्मनिर्जरालुब्धो वेदनां साधु मन्यते ॥ ६३७ ॥
१ " D |
| ।। १३९ ॥