________________
स्वातिदत्तद्विजोऽप्यूचे ब्रूहि सूक्ष्मोऽपि को नु सः ? । व्याजहार प्रभुरपि न गृयेत य इन्द्रियैः ॥ ६१२ ॥||४|| चतुर्थः प्रश्नेनानेन विप्रः स ज्ञात्वा तस्यादित प्रभम् । भक्त्याऽनर्च पभणापि स भव्य इति बोधितः ॥ ६१३॥ ॥ चतुर्मास्यत्यये स्वामी जम्भकग्राममाययो । तत्र नाट्यविधि शक्रो दर्शयित्वाऽब्रवीदिति ॥ ६१४ ॥ जगद्गुरो! कतिपयैरद्य प्रभृति वासरैः । उत्पत्स्यतेऽत्रभवतः केवलज्ञानमुज्ज्वलम् ॥ ६१५ ॥ इत्युदित्वा सुनासीरो वीरं नत्वा ययौ दिवम् । श्रीवीरोऽप्यगमद् ग्रामे मेंढकग्रामनामनि ॥ ६१६ ॥ चमरेन्द्रस्तत्र चैत्य भगवन्तमवन्दत । पृष्ट्वा सुखविहारं च जगाम भवनं निजम् ॥ ३१७॥ ग्रामं षण्मानिनामानं जगाम भगवानपि । यहिश्च कायोत्सर्गेण तस्थौ ध्यानपरायणः ॥ ६१८ ॥ वेद्यं कर्म तदोदीर्ण प्रभोर्विष्णुभवाऽर्जितम् । शय्यापालश्रवःक्षिप्ततप्तत्रपुनियन्धनम् ॥ ६१९ ॥ शय्यापालस्य जीवोऽपि गोपालस्तत्र सोऽभवत् । स्वाम्यन्तिके वृषान्मुक्त्वा गोदोहादिकृते ययौ ॥ ३२० ।। चरन्तः स्वेच्छया ते च प्राविशन्नटवीं वृषाः । क्षणात्सोऽप्याययौ गोपोऽपश्यन्नुक्ष्णोऽवदत्मभुम् ॥ ३२१ ॥ देवार्य! क्ष ममोक्षाणः ? किं न ब्रूषे मुनिब्रुव ! । न श्रुणोषि वचः किं वा कर्णरन्ध्र वृधैव तत् ॥ ६२२ ।। अवादिनि प्रभाववमत्यन्तकुपिसोऽध सः। अक्षिपत्काशशलाके स्वामिनः कर्णरन्धयोः ॥ १२३ ॥ शलाके ताडिते तेन तथा ते मिलिते मिथः । अखंडैकशलाकत्वं बिभरांचक्रतुर्यथा ॥ ६२४ ।।
॥२३॥