SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ LAMMMM.AM:-* दधिवाहनराजस्य संपुलो नाम कंचुकी ।। चम्पावस्कन्द आनीतो राज्ञा मुक्तस्तदेव हि ॥५८६ ॥ तत्रायातो वसुमतीं दृष्ट्वा तत्पादयोनतः । विमुक्तकण्ठमरुदत् सद्यस्तामपि रोदयन् ॥ ५८७ ॥ किं रोदिषीति राज्ञोक्तः साश्रुः प्रोवाच कंचुकी । दधिवाहनराजस्य धारिण्याश्चेयमात्मजा ॥ ५८८ ॥ तादृग्विभवविभ्रष्टा पितृभ्यां रहिता च हा । इयं वसत्यन्यगृहे दासीवत्तेन रोदिमि ॥५८९ ॥ राजाऽप्यूचे न शोच्येयं संपूर्णाभिग्रहो यया। जगत्त्रयाणवीरः श्रीवीरः प्रतिलाभितः ॥ ५९॥ मृगावत्यप्यभाषिष्ट धारिणी भगिनी मम । इयं तद्दुहिता बाला ममापि दुहिता खल्लु ।। ५९१ ॥ पंचाहन्यूनषण्मासतपःपर्यन्तपारणम् । कृत्वा धनावहगृहान्निर्ययो भगवानपि ॥ ५९२ ॥ वसुधारामथाऽऽदित्सु लोभप्रायल्यतो नृपम् । व्याजहार शतानीकं सौधमाधिपतिः स्वयम् ॥ ५९३ ॥ नेह स्वस्वामिभावो यद्रत्नवृष्टिं जिघृक्षसि । यस्मै ददाति कन्येयं स एव लभते नृप ! ॥ ५९४ ॥ गृह्णात्विमां क इत्युक्ता राज्ञा प्रोवाच चन्दना । अयं धनावहः श्रेष्ठी पिता हि मम पालनात् ॥ ५५ ॥ जग्राह वसुधारां तां ततः श्रेष्ठी धनावहः । भूयोऽप्याखण्डलोवोचच्छतानीकनरेश्वरम् ॥ ५९६ ॥ पाला चरमदेहेयं भोगतृष्णापराङ्मुखी । भविष्यत्यादिमा शिष्योत्पन्ने वीरस्य केवले ॥५९७ ॥ आस्वामिकेवलोत्पत्ति रक्षणीया त्वया ह्यसौ । इत्युक्त्वा मघवा नाथं नत्वा च त्रिदिषं ययौ ॥ ५९८ ॥ १ साश्रु CM सास्रः || * १५
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy