________________
एवं स्त्रैणसुलभेन तुच्छत्वेन दिवाऽनिशम् । तदा प्रभृति ताम्यन्ती तस्थौ भूला दुराशया ॥ ५४५ ॥ ग्रीष्मोष्मातोऽन्यदा श्रेष्ठी वेश्मन्यागमदापणात् । पदाधिक्षालको मासीन कोऽपि दैवात पुरःसरः॥५४ विनीता चन्दनोत्थाय श्रेष्ठिना वारिताऽपि हि । प्रावर्तत क्षालयितुं तत्पादौ पितृभक्तितः ॥ ५४७ ॥ केशपाशस्तदा तस्याः लिग्धश्यामलकोमलः। निःसहांग्याः परिस्रस्तः क्ष्मातले जलपंकिले ।। ५४८ ॥ वत्सायाः केशपाशोऽयं मा भूद् भूपंकभागिति । लीलायष्टयोद्दथे श्रेष्ठी तमघध्नाश्च सादरः ॥ ५४९ ॥ तच्च मूला गवाक्षस्था निरीक्ष्यैवमचिन्तयत् । वितर्कः संवदति स यः पूर्व कल्पितो मया ॥ ५५०॥ अस्याः स्वयं केशबन्धः पत्नीत्वस्य नियन्धनम् । प्रथम श्रेष्ठिनो नूनं नेशी हि पितुः क्रिया ॥ ५५१ ॥ उच्छेदनीया तदियं मूलाद्वयाधिरिवोत्थितः । इति निश्चित्य मूलाऽस्थाच्छाफिनीव दुराशया ॥ ५५२॥ क्षणं श्रेष्ठयपि विश्रम्य पुनरेव बहिर्ययौ । अमुंडयश्चन्दनां च मूलाऽप्यालय नापितम् ॥ ५५३ ।। पादयोर्निगडान् क्षिप्त्वा चन्दनां बहताडयत् । मूला वल्लीमिव वशा विवशा क्रोधरक्षसा ।। ५५४ ॥ गृहैकदेशे दूरस्थे मूला न्यधित चन्दनाम् । कपाटसंपुटं दत्त्वा परिवारमुवाच च ॥५५५ ॥ श्रेष्ठिनः पृच्छतोऽप्येतत् कथनीयं न केनचित् । कथयिष्यति यः कोऽपि मत्कोपाग्नेः स आहुतिः॥ ५५६ ॥ एवं नियन्त्रणां कृत्वा मूला मूलगृहं ययौ । श्रेष्ठी च सायमायातोऽपृच्छत् क ननु चन्दना ? ॥ ५५७ ॥ मूलाभयान कोऽप्याख्यच्छेष्ठी चैयमबुध्यत । वत्सा मे रमते कापि यद्वाऽस्त्युपरि वेश्मनः ॥ ५५८ ॥