SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ LYLLY VALYS भ्रष्टा पितृभ्यां प्राप्तेयं निघृणेनामुनाऽधुना । यूथच्युता कुरंगीव लुब्धकेन दुरात्मना ॥ ५३२ ॥ विक्रेतुं पलवच्चेह स्थापिताऽनेन मूल्यतः । हस्ते हीनस्य कस्यापि हा यास्यति वराक्यसौ ।। ५३३ ॥ दत्त्वार्थ बहुमप्यस्य गृह्णाम्येतां कृपास्पदम् । पुत्रीमिव निजां हीमां न क्षमोऽहमुपेक्षितुम् ॥ ५३४ ॥ विनाऽन) मम गृहे तिष्ठन्त्याः क्रमयोगतः । अस्याः स्वजनवर्गेण भविता संगमोऽपि हि ॥ ५३५ ॥ धनावहो विमृश्यैवं दत्त्वा मूल्यं तदीप्सितम् । निन्ये वसुमती बाला सानुकंपः स्ववेदमनि ॥ ५३६ ॥ सोऽपृच्छत् स्वच्छधीस्तां च वत्से ! कस्यासि कन्यका। को वा स्वजनवर्गम्ते मा भैषीर्दुहिताऽसि मे ५३७ महत्वेन समाख्यातुं स्वकुलं सापि माशाला चिम्बार सायं नसिसि त्वधोमुखी॥५३८।। मूलां च श्रेष्ठिनीमूचे मियेऽसौ दुहिताऽऽवयोः । पाल्या लाल्या च तदियमतियत्नेन पुष्पवत् ।। ५३९ ॥ | एवं श्रेष्ठिगिरा तत्र गेहेऽवात्सीत्स्वगेहवत् । बाला बालेन्दुलेखेव सा नेत्राऽऽनन्ददायिनी ॥ ५४॥ तस्या विनयवाकशीलै रजितश्चन्दनोपमैः । चन्दनेत्यभिधां श्रेष्ठी ददौ परिजनैः सह ॥ ५४१॥ ईषच्च यौवनारम्भं करभोरूरवाप सा। राकारात्रिरिवाम्भोधेः श्रेष्ठिनो ददती मुदम् ॥ २४२ ॥ निसर्गतो रूपवतीं यौवनेन विशेषतः । निरीक्ष्य चन्दना मृला दध्यावेवं समत्सरा ॥ ५४३ ॥ पुत्रीवत्प्रतिपद्याऽपि ययेतां रूपमोहितः । श्रेष्ठी परिणयेत्तर्हि जीवन्त्यपि मृताऽस्मि हा ॥ ५४४ ॥ १ भवता C, D, E || A . N.. - 34 ॥१३२॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy