________________
दधिवाहनराजस्य धारिणी नामतः मियाम् । वसुमत्या समं पुत्र्या तत्र कोऽप्यौष्ट्रिकोऽग्रहीत् ॥२१॥ कृतकृत्यः शतानीकोऽप्यनीकैः परिवारितः। समाजगाम कौशाम्बी वैरिकैरवभास्करः ।। ५२० ॥
औष्टिकः सोऽपि धारिण्या देव्या रूपेण मोहितः । वजञ्जगाद पुरतो जनानामिदमुच्चकैः ॥ ५२१ ॥ प्रौढा रूपवती चेयं मम भार्या भविष्यति । विक्रेष्ये कन्यका त्वेतां नीत्वा पुर्याश्चतुष्पथे ॥ ५२२ ॥ नछुत्वा धारिणी देवी मनस्येवमधारयत् । जाता महती वंशेऽहं शशांकादपि निर्मले ॥५२३ ।। महावंशप्रसूतस्य दधिवाहनभूपतेः । पत्नी चास्मि परिणतजैनधर्माऽपिहोऽपि ५५४॥ श्रुत्वैतान्यप्यक्षराणि धिग्जीवाम्यघभाजनम् । स्वभावलोल रे जीव ! किमयाप्यवतिष्ठसे ॥ ५२५ ॥ न चेत् स्वयं निःसरसि तथापि हि घलान्मया। निस्सार्यसे सद्य एव नीडादिव विहंगमः ॥५२६॥ इति तद्भर्त्सनोद्विग्ना इव प्राणाः क्षणादपि । तस्या मन्युप्रस्फुटितहृदयाया विनिर्ययुः ।। ५२७ ॥
औष्टिकस्तां मृतां प्रेक्ष्य दध्यावतां सती प्रति । धिग्धिमयैतदुदितं यन्मे पत्नी भविष्यति ॥५२८ ॥ अंगुलीदर्शननेव कूष्मांड दुर्गिरा मम । विपन्नेयं यथा तद्वत् कन्याप्येषा विपत्स्यते ॥५२९ ॥ एवं विमृश्य साम्ना तामालपन्ननयत् पुरि। कौशाम्ब्यां सोऽथ निदधे विक्रेतुं राजवर्त्मनि ॥ ५३० ।। दैवात्तत्रागतः श्रेष्ठी तामपश्यद्धनावहः । दध्यो चेत्यनया मूर्त्या न हि सामान्यपुत्र्यसौ ॥ ५३१ ॥ १ धारिणीस्थाने सर्वत्र L प्रतौ घारणी इति पाठः, अन्यासु प्रतिषु च 'धारिणी' इति ॥ २ “सि ८॥