________________
अमात्यमूचे नृपतिर्मत्पुर्यां त्रिजगद्गुरुः । अनात्तभिश्चतुरो मासांस्तस्थौ धिग नः ॥ ५०६ ॥ ज्ञातव्योऽभिग्रहो भर्तुः संपूर्याऽभिग्रहं यथा । कारयामि पारणकं जगन्नार्थ स्वशुद्धये ॥ ५०७ || अमात्योऽप्यब्रवीद् भर्तुर्ज्ञायतेऽभिग्रहो न हि । इति खियेऽहमप्युच्चैरुपायः कोऽपि सून्यताम् ॥ २०८ ॥ अथ राजा साहाय्य नामतस्तथ्यवादिनम् । उपाध्यायं धर्मशास्त्रविचक्षणमवोचत || ५०९ ॥ आधाराः सर्वधर्माणां शास्त्रे तव महामते ।। कीर्त्यन्ते तत्समाख्याहि जिनभर्तुरभिग्रहम् ॥ ५१० ॥ उपाध्यायोऽप्यभाषिष्ट बहवोऽभिग्रहाः खलु । महर्षीणां द्रव्यक्षेत्रकालभावविभेदतः ॥ २११ ॥ अभिग्रहो भगवता गृहीतोऽयमिति ध्रुवम् । विना विशिष्टज्ञानेन ज्ञायते न हि जातुचित् ।। ५१२ ॥ राजा घोषयत् यदभिग्रहिणः प्रभोः । अनेकधोपनेतव्या भिक्षा भिक्षार्थमेयुषः ॥ ५१३ ॥ राजाऽऽज्ञया श्रद्धया च तथा चक्रे जनोऽखिलः अपूर्णाभिग्रहः स्वामी भिक्षां जग्राह न क्वचित् ॥ ५१४ ॥ अम्लानां गस्तथाप्यस्थाद्विशुद्धज्ञानभाक् प्रभुः । ब्रीडाखेदाकुलैः पौरवक्ष्यमाणो दिने दिने ।। ५१५ ॥ इतश्च पूर्वं नौसैन्यैः शतानीको निशैकया। गत्वाऽरुणत् पुरीं चम्पां झंपासमसमागमः ॥ ५१६ ॥ चम्पापतिः पलायिष्ट ततश्च दधिवाहनः । बलीयसाऽवरुद्धानां त्राणं नान्यत्पलायनात् ॥ ५१७ ॥ *यग्रहो घोषितस्तत्र शतानीकेन भूभुजा । तदनीकभदाचम्पां स्वेछया मुमुषुस्ततः ॥ ५१८ ॥
टि.- * अहीतव्यम् तद् गृह्णातु इति ।
चतुर्थः
सर्गः
॥१३०॥