________________
देहल्यन्तः स्थितकांघिबहिः क्षिप्ताऽपरांघिका । गृहात् प्रतिनिवृत्तेषु सर्वभिक्षाचरेषु च ॥ ४८० ॥ यदि मे शूर्पकोणेन कुल्माषान् संप्रदास्यति। चिरेणापि तदैवाऽहं पारयिष्यामि नान्यथा ॥ ४८१ ॥
(त्रिभिर्विशेषकम्) गृहीत्वाऽलक्ष्यमाणाभिग्रहं प्रतिदिनं प्रभुः । उच्चावचेषु गेहेषु भ्रमति स्म यथाक्षणम् ॥ ४८२ ॥ अभिग्रहवशाद्भिक्षां दीयमानामगृह्णति । स्वामिनि प्रत्यहं पौरास्ताम्यन्ति स्मात्मनिन्दिनः ।। ४८३ ॥ अनात्तभिक्षः स्वाम्येवं द्वाविंशतिपरीषहीम् । सहमानोऽनयन्मासांश्चतुरः प्रहरानिव ॥ ४८४ ॥ भिक्षार्थमन्यदा स्वामी सुगुप्तामात्यवेश्मनि । प्रविवेश ददृशे च दूरादपि च नन्दया ॥ ४८५ ॥ अयमहन्महावीरो दिष्ट्या मद्गृहमागतः। इति ब्रुवाणाऽभ्युत्तस्थौ नन्दाऽऽनन्दन पूरिता ॥ ४८६ ॥ कल्पनीयानि भोज्यानि साऽभिज्ञा समुपानयत् । स्वाम्पप्यभिग्रहवशात्तान्यनादाय निर्ययो ॥ ४८७ ।। धिगहं मन्दभाग्याऽस्मि न पूर्णा मे मनोरथः । इति खेदं दधारोवैनन्दा मन्दमनाः सती ॥ ४८८॥ तां सखेदां च दास्यूचे देवार्योऽयं दिने दिने । अनात्तभिक्षो निर्याति न खल्वथैव निर्गतः ॥ ४८९ ॥ एवमाकर्ण्य नन्दाऽपि बुबुधे यदभिग्रहः । विशिष्टः कोऽपि तन्नोपादत्तेऽसौ प्रासुकान्यपि ॥ ४९०॥ स्वामिनोऽभिग्रहो ज्ञेयः कथं न्विति विचिन्तया। निरानन्दैव नन्दाऽस्थात् सुगुप्तस्तां ददर्श च ॥ ४९१ ॥|| १ तु ,Lu
॥१२८॥