SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ स प्रणम्य जगन्नाथमित्यूचे रचिताञ्जलिः । अशेषजीवजीवातो! त्वमेव मम जीवदः ॥ ४.४ ॥ अनेकवुःखनिलयाद्विमुच्यन्ते भवादपि । त्वत्पादौ शरणं प्राप्ताः किं पुनः कुलिशादहम् ॥ ४२५ ॥ अहं पूर्वभवेऽप्यज्ञोऽकार्ष घालतपः प्रभो ! । अज्ञतासहितं प्रापमासुरेन्द्रघं च तत्फलम् ॥४६॥ मया स्वयमनर्थोऽयमज्ञानादात्मनः कृतः । इदमेव कृतं सुष्टु यत्त्वं शरणमाश्रितः ॥ ४५७ ॥ शरणं प्राग्भवेऽपि त्वामकरिष्यमहं यदि । प्राफ्यमप्यच्युतेन्द्रत्वमहमिन्द्रत्वमप्यथ ॥ ४५८ ॥ यदि वा कृतमिन्द्रत्वैः सर्व प्राप्तं मया प्रभो! । जगत्त्रितयनाथ ! त्वं नाथः प्राप्तोऽधुनापि यत् ॥ ४५९ ॥ सश्रद्धमभिधायैवं नत्वा च परमेश्वरम् । पुर्यां चमरचंचायां जगाम चमरामुरः ॥ ४६० ॥ तत्र सिंहासनाऽऽसीनश्चमरेन्द्रस्त्रपानतः । अवोचत स्वागतिकान्निजान् सामानिकादिकान् ॥ ४६१ ॥ यथा हि मध्यस्थतया शक्रो युष्माभिरोच्यत । स तथैव परं मोहादज्ञायि न मया तथा ॥ ४३२॥ तत्सभामगर्म सिंहकन्दरामिव जंबुकः । उपेक्ष्यमाणस्तल्लोकैः कौतुकस्य दिदृक्षया ॥ ४६३ ॥ शक्रनिर्मुक्तकुलिशात् कृच्छान्मुक्तो गतोऽस्म्यहम् । शरणं वीरचरणौ सुरासुरनमस्कृतौ ॥ ४६४ ॥ श्रीवीरशरणस्थोऽहं जीवन्मुक्तो विडोजसा । इहाऽऽगच्छं चलत भो ! गत्वा बन्दामहे जिनम् ॥ ४३५ ॥ इत्युक्त्वा सपरीवारश्चमरः प्रभुमाययौ । नत्वा चक्रे च संगीतं जगाम स्यां पुरी ततः ॥ ४६६ ॥ १ अमानस°C,LI ॥१२६ ।।
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy