________________
अधस्तानिजभूमित्वाचमरस्तत्र चाग्रतः। तत्पृष्टतोऽगादम्भोलिबजी तत्पृष्ठतः पुनः ॥ ४४१॥ पश्चात्प्रचलितोऽपीन्द्रो निजशक्याऽतिवेगवान् । करीव प्रतिकारस्य तयोनिकटवर्त्यभूत् ॥ ४४२ ॥ आसन्नप्रायकुलिशः कथंचित्प्राप सोऽसुरः। प्रतिमाथ महावीरं दवातद्विपवनदीम् ॥ ४४३॥ शरणं शरणमिति ब्रुवाणः स्वामिपादयोः। अन्तरे सूक्ष्मकीभूय कुन्थुवच्चमरोऽविशत् ॥ ४४४ ॥ चतुरंगुलमप्राप्तं स्वामिपादारविन्दयोः । वध मुथ्याऽग्रहीवाही पारजिलो पक्ष । ४४५ ॥ प्रभु प्रदक्षिणीकृत्य वन्दित्वा अ पुरन्दरः । कृताञ्जलिरुवाचैवं भक्तिनिर्भरया गिरा ॥ ४४६ ॥ नाऽज्ञासिषं यथा स्वामिपादपद्मप्रभावतः। आगमञ्चमरेन्द्रो मामुपद्रोतुं समुद्धतः ॥ ४४७ ॥ अज्ञानादमुचं वज्रं पश्चाचावधिनाऽबुधम् । अमुं त्वत्पादसंलीनं सहस्वाऽऽग इदं मम ॥ ४४८॥ इत्युक्त्वा शक्र ऐशान्यां स्थित्वा वामांघ्रिणा भुवम् । रोषनाशाय भित्त्वा त्रिश्चमरेन्द्रमदोऽवदत् ॥४४९॥ भो भोः ! साधु त्वया चक्रे यद्विश्वाभयदः प्रभुः । शिश्रिये शरणायाऽयं गुरुः सर्वगरीयसाम् ॥ ४२०॥ मया वैरं समुत्सृज्य मुक्तोऽसि चमरासुर ! । गत्वा चमरचंचायां स्वऋद्धिसुखभाग्भव ॥ ४५१ ॥ एवं चमरमाश्वास्य भूयोऽपि परमेश्वरम् । नमस्कृत्य प्रतिययौ निजं स्थानं पुरन्दरः ॥ ४५२॥ गते शक्ने चमरेन्द्रः प्रभोः पादद्वयाऽन्तरात् । निरगावस्तमितेऽकें गुहाया इव कौशिकः ॥ ४५३ ॥ १ "सुर: C, D, I.
॥१२॥