________________
चतुर्थः
सर्गः
ज्ञात्वाऽवधेस्तं चमरं रे रे नश्येत्यथ ब्रुवन् । भृकुटीमिव दुर्दर्श शक्रो दंभोलिमुद्दधे ॥ ४२८ ॥ सारं कल्पानलस्येव विद्युतामिव संचयम् । वृन्दीभूतमिवौर्वाग्निज्वालेद्धं सोऽमुचत्पविम् ॥ ४२० ॥ तडत्तडिति कुर्वाणं त्रस्तगीर्वाणवीक्षितम् । गीर्वाणपतिमुक्तं तवमरं प्रत्यधावत ॥ ४३० ॥ अर्कतेज इवोलूको द्रष्टुमप्यक्षमः पविम् । वल्गुलीवोर्ध्वपादोऽधोमौलिभ्रंश सोऽसुरः॥ ४३१ ।। भगवन्तं महावीरं प्रपित्सुः शरणं ततः। द्राक् पलायिष्ट चमरश्चमरश्चित्रकादिव ॥ ४३२ ॥ महाहेरिव मंडूक उरभ्र इव दन्तिनः । कुञ्जरः शरभस्येव गरुडस्येव पन्नगः ॥ ४३३॥ अनात्मज्ञः कथमरे युयुत्सुरसुराधमः । शेक्रस्यास्फलित इति स नश्यञ्जहसेऽमरैः ॥ ४३४ ॥ (युग्मम्) योऽभूत्ताहग्महादेहो लघुदेहः क्षणेन सः । वाताहत इवाम्भोदस्त्वरितत्वरितं ययौ ॥ ४३५ ॥ तस्याणूकृतरूपस्य गोधाया इव पृष्ठतः। समापतनशोभिष्ट ज्वालाजालाकुलोऽशनिः ॥ ४३६ ।। इतश्च वज्रे निर्मुक्तमात्रे वनीत्यचिन्तयत् । नासुराणामिहाऽऽगन्तुं शक्तिः संभवति स्वतः ॥ ४३७ ।।
अर्हन्तमर्हचैत्यं वा महर्षि कंचनाय वा । मन्ये मनसिकृत्याऽसौ जातशनिरिहाययौ ॥ ४३८ ॥ विचिन्त्येत्यवधेः शक्रोऽज्ञासीत् स्वामिप्रभावतः । तत्राऽऽयातं चमरेन्द्र यान्तं च स्वामिनं प्रति ॥ ४३९ ॥ हा हा हतोऽस्मीति वदन्निन्द्रः कुलिशवम॑ना । द्रुतद्रुतमधाविष्ट त्रुटद्धारादिभूषणः ॥ ४४० ॥ १ शक्रेगोलासित इति ॥
॥१२४॥