SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ नाभीमंडलसंलीनफणिफूत्कारदारुणः । शैलचूलाग्रसंलग्रजानूजनितविस्मयः ॥ ४१५॥ पादावष्टंभविधुरीकृतभूमंडलोऽथ सः। समुत्पपात दर्पान्धः सौधर्माधिपतिं प्रति ॥ ४१६ ।। (पंचभिः कुलकम् ) ऊर्जितैगर्जितैः सर्वं ब्रह्माण्ड स्फोटयन्निव । व्यन्तरान् भीषयमाणो भीष्मोऽन्तक इवापरः॥ ४१७ ॥ ज्योतिष्कांस्त्रासयन्नुचैः कुरंगानिव केसरी । क्षणात्मापातिसूर्येन्दुमंडलः शक्रमंडलम् ॥ ४१८ ॥ निलिलियर किल्बिषिकास्तत्रसुश्चाभियोगिकाः । सेनान्योऽपि समं सैन्यैरकस्मादपि बुद्रुयुः ॥ ४१९॥ पलायन्ते स्म दिक्पालाः मोमवैश्रवणादयः । बेगेनापततस्तस्माद्भयकरमहातमोः ॥ ४२० ॥ आत्मरक्षरस्खलितो पत्रिणाऽप्यनिवारितः । किमेतदिति संभ्रान्तस्त्रागनिंशोर्निरीक्षितः ॥ ४२१॥ सकोपविस्मयेष्टिः सोऽथ सामानिकैय॑धात् । एक क्रमं पद्मवेयां सुधर्मायामथापरम् ॥ ४२२ ॥ (युग्मम् ) परिघणेन्द्रकीलं त्रिस्ताडयित्वा स दुर्मदः । उत्कटां भ्रकुटिं बिभ्रच्छक्रमेवमवोचत ।। ४२३ ॥ एवंविधानां वृन्देन षिड्गानामिव नाकिनाम् । ओजसा किं विडोजस्त्वं ममोपर्यवतिष्ठसे ? ।। ४२४ ।। अधुना पातयामि त्वामधस्तादात्मनोऽपि हि । मुधा घिरं स्थितोऽसीह शैलाग्र इव मौकुलिः ॥ ४२५ ॥ पुर्याश्चमरचंचायाः स्वामिनं चमरासुरम् । किं मामपि न जानासि विश्वासह्यपराक्रमम् ॥ ४२६ ॥ केसरीव व्याधहका तादृक्षं परुषं वचः । अनाकर्णितपूर्वीन्द्रः सिधिमयेऽथ विसिध्मिये ॥ ४२७ ॥ ५॥१२३॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy