SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ सग अमी सामानिकाः शक्रं शक्तमाचक्षते यथा । भविष्यति तथा किंचिन्न खल्वेते ममाहिताः॥ ४० ॥ कार्यगतिर्विषमा च देवाचेन्मे पराजयः। तदा के शरणं यास्याम्यमुष्मादधिकोजसः ।। ४०३ ॥ एवं विचिन्त्य प्रायुक्तावधि सोऽथ ददर्श च । सुंसुमारपुरे वीरस्वामिन प्रतिमास्थितम् ॥ ४०४ ॥ निश्चित्य शरणीकार्य श्रीवीरं चमरासुरः । उत्थायाऽगात् प्रहरणशालां तुंबालयाहयाम् ॥ ४०५ ॥ जग्राह तत्र परि मृत्योर्भुजमिवापरम् । द्विस्त्रिश्च चालयामास तिर्यगूर्ध्वं च स द्रुतम् ॥ ४०६ ॥ वीर इत्यसुरस्त्रीभिर्वीक्ष्यमाणः सकामनम् | उत्सायमानो भुवनपतिभिः कौतुकार्थिभिः ॥ ४०७॥ उपेक्ष्यमाणोऽज्ञ इति निजैः सामानिकासुरैः । पुश्चिनरचंधाचा नियों चमरासुरः ।। ४०८ ॥ (युग्मम् ) क्षणाच्छीवीरमासाद्य मुक्त्वा परिघमायुधम् । स निः प्रदक्षिणीकृत्य नत्वा चैवं व्यजिज्ञपत् ॥ ४०९॥ भगवस्त्वत्प्रभावेण शक्रं जेध्यामि दुर्जयम् । सोऽत्यन्तं बाधते मां हि मन्मनः उपरि स्थितः ॥ ४१० ।। इत्युक्त्वाऽऽदाय परिघमैशान्यामुपमृत्य घ । सद्यो विचक्रे स्वं रूपं प्रमाणे लक्षयोजनम् ॥ ४११॥ मूर्तीभूतमिव व्योम श्यामच्छबिमहातनुः । नन्दीश्वरमहाद्वीपाञ्जनादिरिष जंगमः॥ ४१२ ।। दंष्ट्राककचभीमास्यो विलोलश्यामकुन्तलः । वक्त्रकुंडोच्छलज्ज्वालाजालपल्लविताम्बरः ॥ ४१३ ॥ धुवक्षःस्थलाभोगस्थगितादित्यमंडलः । दोर्दडखणभ्रश्यद्ग्रहनक्षत्रतारकः ॥ ४१४ ॥ १ चुपाल CI चुपाल ॥२'तनु ॥ ॥१२॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy