SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ N A . . . . फलं प्रार्मणामत्र प्राप्यते हि शुभाशुभम् । सेव्यसेवकभावेन भजनेष्वनुमीयते ।। ३७६ ॥ गृहवासं परित्यज्य स्वजनान्प्रतिबोध्य च । एष्यद्भव फलप्राप्त्यै चरिष्यामि तपो यतः ॥ ३७७ ॥ मासैरष्टभिरला च पूर्वेण वयसाऽऽयुषा । तत्कर्तव्यं मनुष्येण येनान्ते सुखमेधते ॥ ३७८ ॥ एवं विचिन्त्य स प्रात जयित्वा स्वकाञ्जनान् । आपृच्छ्य च व्रतकृते स्वपदे तनयं स्यात् ॥ ३७॥ स्वयं च नाना प्राणामं तापसत्रतमारदे । चतुःपुटं दारुमयं भिक्षापात्रमथाग्रहीत् ॥ ३८०॥ आरभ्य तहिनादेव सदा षष्ठानि सोऽकरोत् । आत्मानमातापनया क्रशयामास चाऽन्वहम् ॥ ३८१ ॥ प्राप्ते च पारणदिने भाजनं तश्चतुःपुटम् । गृहीत्वा प्रययो भिक्षाकृते मध्यंदिनक्षणे ॥ ३८२ ।। क्षिप्तामाये पुटे भिक्षां पान्थादीनामदत्त सः। द्वितीयपुटभिक्षां च काकादिभ्यः पुनर्ददौ ॥ ३८३ ॥ मत्स्यादिजलचारिभ्यस्तृतीयपुटगामदात् । रागद्वषो विनाऽभुंक्त चतुर्थपुटगां स्वयम् ॥ ३८४ ॥ एवं द्वादशवर्षाणि कृत्वा बालतपः स तु । विभेलसनिवेशस्यैशान्यामनशनं ललौ ॥ ८ ॥ मासं सोऽनशनं कृत्वा मृत्वा बालतपोषशात् । अभूञ्चमरचंचायां चमरेन्द्रोऽर्णवस्थितिः ॥ ३८६ ॥ उत्पन्नमात्रो भुवनान्तराण्यवधिचक्षुषा । द्राक् पश्यन्त्यमपि हि सौधर्मेन्द्र ददर्श सः॥ ३८७ ॥ स्थितं विमाने सौधर्मावतंसे वज्रधारिणम् । शक्रं महर्द्धि स प्रेक्ष्य क्रुद्धोऽवोचदिति स्वकान् ॥ ३८८ ॥ . extracksCALKARNATAKAMA9% .. . .. - १D, Mm
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy